________________
८३
५२-५३]
द्वितीयः सर्गः भवेत् । अतो महामतिर्बुद्धिमान् जनो योग्यतामनुचरेत स्वीकुर्याद् विचारशीलो भवे. वित्यर्थः । ततो विश्वासयोग्यस्येव विश्वासः कार्य इति भावः । सर्वत्रातिकरणं कष्टकृद् इत्याशयः ॥ ५१॥ उद्धरन्नपि पदानि सन्मनः शब्दशास्त्रमनुतोषयञ्जनः । श्रीप्रमाणपदवीं ब्रजेन्मुदा वाग्विशुद्धिरुदितार्थशुद्धिदा ॥ ५२ ॥
उद्धरनपीति । जनः पुरुषः शब्दशास्त्रमधीत्येति शेषः । पदानि सुप्तिङन्तात्मकानि, उद्धरण प्रकृति-प्रत्ययाविनिरुक्त्या शोधयन्, सतां विदुषां मनश्चित्तमनुतोषयन् रज्जयन, श्रीप्रमाणपदवीं व्याकरणशतां मुबाऽनायासेन व्रजेत् प्राप्नुयात् । यतो वाचा विशुद्धिर्वाग्विशुद्धिः शुद्धवचनोच्चारणमेव, अर्थस्य शुधिरर्थशुलिस्तां ददातीति अर्थशुद्धिदा शुद्धार्थप्रतिपादिका भवतीति शेषः ।। ५२ ॥ दूषणानि वचनस्य शोधयेत्तच्च भूषणतया भुवो वहेत् । छान्दसं समवलोक्य धीमतां प्रीतये भवति मञ्जुवाक्यता ॥ ५३ ॥
दूषणानीति । वचनस्य दूषणानि तु शोषयेत् मार्जयेदेव, अपि तु तद्वचनं भुवो भूषणतयाऽनुरञ्जकतया वहेद् धारयेत् । यतश्छन्द एव छान्दसं छन्दःशास्त्रं सम्यगवलोक्य मजुवाक्यानां भावो मजुवाक्यता मनोहरवचनता धीमतां विदुषां प्रीतये प्रसादाय भवति ।। ५३ ॥ आपको ठगाना है । सब जगह शंका ही शंका करनेवाला कुछ कर नहीं सकता। इसलिऐ समझदारको चाहिए कि वह योग्यतासे काम लें, क्योंकि 'अति' सर्वत्र दुखदायी हो होता है ।। ५१ ।।।
अन्वय : अपि च जनः पदानि शब्दशास्त्रम् उद्धरन् सन्मनः अनुतोषयन् श्रीप्रमाणपदवीं मुदा व्रजेत् । ( यतः ) वाविशुद्धिः अर्थशुद्धिदा उदिता ।
अर्थ : फिर मनुष्यको चाहिए कि शब्दशास्त्र पढ़कर उसके अनुसार प्रत्येक शब्दको निरुक्ति और सज्जनोंके मनको रंजित करते हुए अनायास व्याकरणशास्त्रका ज्ञान प्राप्त करे। क्योंकि वचनकी शुद्धि हो पदार्थकी शुद्धिकी विधायक होती है ।। ५२॥
अन्वय : ( पुनः ) वचनस्य दूषणानि शोधयेत् । तत् च भुवो भूषणतया बहेत् । ( यतः ) छान्दसं समवलोक्य मञ्जुवाक्यता धीमतां प्रीतये भवति ।
इसी तरह अपने वचनके दूषणोंको दूर हटाकर उसे सबके लिए रंजक बनानेकी चेष्टा करे; क्योंकि छन्दःशास्त्रका सम्यक् अध्ययन कर मधुर वाक्यविन्यास ही विद्वानोंको प्रीतिके लिए होता है ॥ ५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org