________________
जयोदय-महाकाव्यम्
[ ५०-५१ कि किमिति । अथ जगति कि कि प्रसिद्धि रस्यास्तीति प्रसिद्धिमत् प्रशंसनीयमस्ति, कस्य वस्तुनः कीदृशी सम्पत् सुपरिणमनमस्ति, कस्य विपरिणमनमस्तीति विज्ञानार्थ समये द्रव्यनाम द्रव्यानुयोगशास्त्रं प्रपश्यतामधीयताम् । हि यस्माद वस्तुता वस्तुभावो वितर्को विषयो यस्याः सर्वभूता नास्ति ॥ ४९ ॥ एतकैर्निजहितेऽनुयोजनमस्ति सूक्तिमुभिदाऽऽत्मनः पुनः । हस्तयन्त्रकशिताख्यसीवनं वाससो हि भुवि जायतेऽवनम् ॥ ५० ॥
एतकैरिति । एतैरेव एतकः पूर्वोक्तप्रथमानुयोगादिशास्त्रः सूक्तिसुभिदा शोभनकथनप्रकारभेदेन, आत्मनो निजहिते आत्मकल्याणे योजनं प्रवर्तनमस्ति । हि यतो भुवि लोके हस्तश्च यन्त्रश्च कशितञ्च आख्या यस्य तद् एवम्भूतं सीवनं वाससो वस्त्रस्य, अवनं रक्षणार्थ परिधानानुकूल्यार्थमेव वा जायते । यथा हस्तयन्त्रकशिताख्यः प्रकारवस्त्रस्थ सीवनं भवति तत्सर्वं तस्य संरक्षणमेव तथा प्रथमकरणचरणद्रव्य नामकः निजहिते योजनमेतकश्चतुभिः भवतीति ज्ञातव्यम् ॥ ५० ॥ विश्वविश्वसनमात्मवश्चितिः शङ्किनः स्विदभिदः कुतो गतिः । योग्यतामनुचरेन्महामतिः कष्टकृद्भवति सर्वतो ह्यति ॥ ५१ ॥
विश्वविश्वसनमिति । विश्वस्य विश्वसनं विश्वासः क्रियते चेत्तदात्मनो वञ्चितिवञ्चना भवति । स्वित् किन्तु अभितः सर्वतो विशङ्किनः शङ्काशीलस्य कुतो गतिः निर्वाही
अर्थ : इसके बाद जगत् में क्या-क्या चीजें हैं और किस-किस चीजका कैसा सुन्दर या असुन्दर परिणाम होता है, यह जाननेके लिए द्रव्यानुयोगशास्त्रका अध्ययन करें, क्योंकि वस्तुकी वस्तुता वितर्कका विषय नहीं है॥४९॥
अन्वय : एतकैः पुनः सूक्तिःसुभिदा आत्मनः निजहिते अनुयोजनम् अस्ति । हि भुवि हस्तयन्त्रकशिताख्यसीवनं वाससः अवनं जायते ।
अर्थ : इन उपर्युक्त प्रथमानुयोगादि शास्त्रों में कथनकी अपनी-अपनी शैलीके भेदोंसे आत्मकल्याणकी ही बात कही गयी है । हम पृथ्वी पर देखते हैं कि सीनेकी मशोनसे सीना और कसीदा निकालना ये सब कारीगरियाँ उस वस्त्रको पहननेयोग्य बनाने के लिए ही होता है ।। ५० ॥
अन्वय : विश्वविश्वसनम् आत्मवञ्चितिः स्वित् । (किन्तु ) अभिदः शङ्किनः गतिः कुतः ? महामतिः योग्यताम् अनुचरेत् । हि अति सर्वतः कष्टकृत् भवति ।
अर्थ : बिना कुछ विचार किये सभी पर विश्वास कर बैठना अपने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org