________________
४७-४९]
द्वितीयः सर्गः सुस्थिति समयरीतिमात्मनः सङ्गतिं परिणति तथा जनः । द्रष्टुमाशु करणश्रुतं श्रयेत् स्वर्णकं हि निकषे परीक्ष्यते ।। ४७ ।।
सुस्थितिमिति । जनः शोभना स्थितिस्तां शोभनावस्थां, समयस्य रीतिस्तां कालनियमम्, आत्मनः स्वस्य सङ्गति सहावस्थानं शुभति वा परिणति शुभाशुभपरिवर्तनश्च द्रष्टुमाशु करणश्रुतं करणानुयोगशास्त्रं श्रयेत् शिक्षेत । हि यतः स्वर्णकं निकषे परीक्षोपले परीक्ष्यते ज्ञायते ॥ ४७ ॥
सञ्चरेत् सुचरणानुयोगतस्तावदात्महितभावनारतः । नित्यशोऽप्रतिनिवृत्य सत्पथात्सम्भवेत्पथि गतस्य का व्यथा ॥४८॥
सञ्चरेविति । तावत् आत्मनो हितमात्महितं तस्य भावनायां रतः स्वकल्याणानुसन्धानतत्परः सन् सुचरणानुयोगतः सुचरणानुयोगानुसारं संश्चासौ पन्थाः सत्पथस्तस्माद् अप्रतिनिवृत्त्य, सन्मार्गमपरित्यज्य नित्यशः सञ्चरेवाचरेत् । यतः पथि सन्मार्गे गतस्य का व्यथा कष्टं सम्भवेत्, न काऽपीत्यर्थः ॥ ४८ ॥ किं किमस्ति जगति प्रसिद्धिमत्कस्य सम्पदथ कीदृशी विपद् । द्रव्यनाम समये प्रपश्यतां नो वितर्कविषया हि वस्तुता ॥ ४९ ॥
अन्वय : जनः सुस्थिति समयरीतिम् आत्मनः सङ्गति तथा परिणति द्रष्टुम् आशु करणश्रुतं श्रयेत् । हि स्वर्णकं निकले परीक्ष्यते ।
अर्थ : मनुष्य समोचीन अवस्था, कालके नियम, अपनी संगति, शुभगति या शुभाशुभ परिवर्तनका ठीक-ठीक ज्ञान प्राप्त करनेके लिए करणानुयोग-शास्त्रोंका अध्ययन करे। क्योंकि सुवर्णके खरे-खोटेपनकी परीक्षा कसौटीपर ही की जाती है ।। ४७॥
अन्वय : तावत् आत्महितभावनारतः सुचरणानुयोगतः नित्यशः सत्पथात् अप्रतिनिवृत्त्य सञ्चरेत् । पथि गतस्य का व्यथा संभवेत् । . अर्थ : इसके बाद अपना भला चाहनेवाले मनुष्यको चाहिए कि वह चरणानुयोगका अध्ययन कर सन्मार्गको न छोड़ता हुआ सदैव सदाचरण करे । क्योंकि सन्मार्गपर चलनेवालेको क्या कष्ट होगा? ॥ ४८ ।।
अन्वय : अथ जगति किं किं प्रसिद्धिमत् अस्ति । कस्य कीदृशी सम्पद् विपद् (वा) ( इति ) द्रव्यनाम समये प्रपश्यताम् । हि वस्तुता वितर्कविषया नो भवति ।
११
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org