________________
( २१ )
पञ्चम सर्ग 'को हि नाम महासत्त्वः पूर्व प्रहरति द्विषः ।। ८॥' 'कस्यचित्कृच्छ्साहाय्यं न हि सर्वविधीयते ।। २३ ।' 'को हि मृत्यो। पलायते ॥ ३१ ॥' 'न महान् कृच्छ्रसाहाय्यं परकीयं प्रतीक्षते ।। ६४ ॥' 'स्फुरन्तं तेजसा शत्रु सहते को हि सात्त्विकः । ८०॥'
षष्ठ सर्ग 'ता धन्यास्ता महासत्त्वा यासा वाच्यतया विना। यौवनं समतिक्रान्तं ताः सत्यं कुलदेवताः ॥ ४६ ।।' 'सुखं हि नाम जीवानां भवेच्चेतसि निर्वते ॥ ५० ॥' 'कलङ्कक्षालनोपायो नान्योऽस्ति तपसो विना ॥ ५१॥' 'निर्वाच्यं जीवितं श्रेयः सुखं चानुज्झितक्रमम् । खण्डनारहितं शौर्य धैर्य चाधेनिरासकम् ।। ५५ ॥' 'सर्वसङ्गपरित्यागान्नापरं परमं सुखम् । तृष्णाप्रपञ्चतो नान्यन्नरकं घोर मुच्यते ।। ६५ ।' 'भव्यता हि परा भूषा सत्त्वानां सत्त्वशालिनाम् ।। ११६ ॥'
सप्तम सर्ग 'स्त्रीजनोऽपि कुलोद्भूतः सहते न पराभवम् ।। ८७ ॥'
अष्टम सर्ग 'आचारो हि समाचष्टे सदसञ्च नृणां कुलम् ।। ४२ ।।' 'कामग्रहगृहीतेन विनयो हि निरस्यते ।। ६७ ।।' 'दह्यमाने जगत्यस्मिन् महता मोहवह्निना। विमुक्तविषयासङ्गाः सुखायन्ते तपोधनाः ।। १७६ ।।'
नवम सर्ग 'भजते नो विशेषज्ञो वर्णमात्रेण निर्गुणम् ।। ५१ ।।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org