________________
( २२ )
दशम सर्ग
'अविद्याराग संक्लिष्टो बंभ्रमीति भवान्तरे । विद्याराग्यसंयुक्तः सिद्धयत्यविकलस्थितिः ।। ८३ ।।' 'जैनं विश्वजनीनं हि शासनं दुःखनाशनम् ।। ८४ ॥' 'परमं सुखमभ्येति निगृहीतेन्द्रियः पुमान् । दुःखमेव सुखव्याजाद्विषयार्थी निषेवते ।। १०४॥' 'प्रापदामिह सर्वासां जनयित्री पराऽक्षमा। तितिक्षैव भवेन्नृणां कल्याणानां हि कारिका ।। १.५ ॥'
एकादश सर्ग 'साधुः स्वार्थालसो नित्यं परार्थानिरतो भवेत् । स्वच्छाशयः कृतज्ञश्च पापभीरुश्च तथ्यवाक् ।। ८२ ॥' 'भूयते हि प्रकृत्यैव सानुक्रोशैर्महात्मभिः । केनान्तर्गन्धितोयेन संसिक्ताश्चन्दनद्रुमाः ।। ११३॥' 'अक्षान्त्या सर्वतः क्षुद्रो व्याकुलीक्रियते जनः । सदोन्मार्गप्रवर्तिन्या भूरेणुरिव वात्यया ।। ११४ ।।' असत्कृत्याप्यहो पश्चादनुशेते कुलोद्भवः ॥ ११७ ॥' 'पुत्रो हि कुलदीपकः ॥ १४० ॥' 'जन्मान्तर सहस्राणि विरहः प्राणिनां प्रियः । कर्मपाकस्य वैषम्यात्स्यात्साम्याच समागमः ।। १४२ ॥'
द्वादश सर्ग 'कर्मभिः प्रेर्यमाणः सन् जीवो गति चतुष्टये । निर्विशन् सुखदुःखानि बम्भ्रमीति समन्ततः ।। १६ ॥' 'संसारोत्तरणोपायो नान्योऽस्ति जिन शासनात् । भव्येनैवाप्यते तच्च नाभव्येन कदाचन ।। १७ ॥' 'महान्तो नाम कृच्छऽपि नैवाकार्यं प्रकुर्वते ।। ३१ ॥' 'केषां मनः सकालुष्यं कषायैर्न विधीयते ॥ ४२ ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org