________________
सूत्र २२] स्वोपज्ञभाष्यटीकालङ्कृतम्
२५३ टी०-परिहारो मासिकादिरिति । इदं मूलप्रायश्चित्तोपलक्षणम् । परिहियते अस्मिन् सति वन्दनालापानपानप्रदानादिक्रियया साधुभिरिति परिहारः। स च मासादिकः षण्मासान्तः। तस्य चान्ते कचिन्मूलं पुनर्वतारोपणं तद्विषयः सङ्कल्पात् कृतः प्राणातिपातो
_ दर्पाच्चतुर्थासेवनमुत्कृष्टं मृषावादादि वा सेवमानस्येत्येवमादिः । अनवअनवस्थाप्यपार-. चिकयोरन्तर्भावः ।
स्थाप्यपारश्चिकप्रतिपादनार्थमाह-उपस्थापनं पुनःक्षणमित्यादि ।
___ अनवस्थाप्यपारश्चिकप्रायश्चित्ते लिङ्गक्षेत्रकालतपःसाधम्योदेकस्थीकृत्योक्ते तत्र यथोक्तं तपो यौवन्न कृतं तावन्न व्रतेषु लिङ्गे वा स्थाप्यते इत्यनवस्थाप्य तेनैव तपसातिचारपारमश्चतीति पारश्चिकः । पृषोदरादिपाठाच संस्कारः शब्दस्य । तयोः पर्यन्ते तेषपस्थापन-व्यवस्थानं पुनर्दीक्षणं-पुनः प्रव्रज्याप्रतिपत्तिः पुनश्चरणं-चारित्रं पुनर्वतारोपणमित्यनर्थान्तरम् । तत्रानवस्थाप्यविषयः साधर्मिकान्यधार्मिकास्तेयहस्तताडनादिः दुष्टमूढान्योन्यकरणादिः पारश्चिकस्येति ॥
भा०—तदेतनवविधं प्रायश्चित्तं देशं कालं शक्ति संहननं संयमविराधनां च कायेन्द्रियजातिगुणोत्कर्षकृतां च प्राप्य विशुध्यर्थं यथाऽहं दीयते चाचर्यते च ॥ टी०–तदेतन्नवविधं प्रायश्चित्तमित्यादि । तदेतदित्यालोचनादेः परामर्शः ।
नवविधमिति खकृतसूत्रसन्निवेशमाश्रित्योक्तम् । आर्षे तु दशधा विशप्रायश्चित्तप्रकाराणां सङ्ख्या
। तिधा वाभिहितं प्रायश्चित्तं वक्ष्यमाणनिर्वचनम् । देशो निर्गुणः किले
" क्षेत्रम् । कालः स्निग्धो रूक्षः साधारणश्च । शक्तिः प्रायश्चित्तकारिणो वीर्य-सामर्थ्यम् । संहननं वज्रर्षभनाराचादि । संयमः सप्तदशभेदः समस्तो वा मूलगुणोत्तरगुणकलापः तस्य विराधना-खण्डनमतिचरणम् । चशब्दः समुच्चयार्थः । तां विराधनां विशिनष्टि-कायेन्द्रियेत्यादि । कायाः पृथिव्यादयः षट्सङ्ख्याः। तत्रावनि-जल-ज्वलन-पवन-प्रत्येकवनस्पतिषु सट्टन-परितापना-ऽवद्रावणविषयमन्यादृशं प्रायश्चित्तमन्यादृक् साधारणवनस्पतावन्यादृशं च द्वि-त्रि-चतु:-पञ्चेन्द्रियकायेषु इत्थमुपयुज्य यथावद् देयम् । एवं कालादयोऽपि पर्यालोचनीयास्तदनुरूपं च देयमिति । तथा एक-द्वि-त्रिचतुः-पश्चेन्द्रियप्राणिप्रत्युपेक्षणेन च विभजनीयं प्रायश्चित्तम् । अथवा एक-द्वि-त्रि-चतु:पञ्चेन्द्रियजातिद्वारेण गुणा राग-द्वेष-मोहाः तेषामुत्कर्षा-ऽपकर्ष-मध्यावस्थाः समीक्ष्य मृगराज-गवादिव्यापादकवत् तत्कृतां च विराधनां प्राप्य अतिचारविशोधनार्थ यथाऽहमपराधानुरूपं दीयते चाचर्यते च प्रायश्चित्तमिति ॥
१ 'मूलं व्रता' इति उ-पाठः। २ ‘यावत्कृतं ' इति ङ-पाठः। ३ 'लिङ्गे वा स्थाप्यः' इति ङ-पाठः । ४ 'कृत-स्तत्र' इति ङ-पाठः। ५'खिलक्षेत्रं ' इति ङ-च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org