________________
२५४ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ सम्प्रति प्रायश्चित्तमिति शब्दं व्युत्पादयतिभां०-'चिंती सज्ञानविशुद्धयोः' धातुः । तस्य चित्तमिति भवति
___ निष्ठान्तमौणादिकं च ॥ एवमेभिरालोचनादिभिः कृच्छ्रस्तपोप्रायश्चित्तशब्दस्य
स्य विशेषैनिताप्रमादः तं व्यतिक्रमं प्रायश्चेतयति, चेतयंश्च न व्युत्पादनम्
- पुनराचरतीति । अतःप्रायश्चित्तमपराधो वा प्रायस्तेन विशुध्यत इति । अतश्च प्रायश्चित्तमिति ॥ २२ ॥
टी-चिती सज्ञानविशुद्धयोर्धातुरित्यादि । भीमसेनात् परतोऽन्यैर्वैयाकरणैरर्थद्वये पठितो धातुः सञ्ज्ञाने विशुद्धौ च । इह विशुद्धयर्थस्य सह सज्ञानेन ग्रहणम् । अथवाऽनेकार्था धातव' इति सज्ञाने पठितो विशुद्धावपि वर्तते । भाष्यकृता चोपयुज्यमानमेवार्थमभिसन्धाय विशुद्धिरपि पठिता तस्य चित्तमिति रूपं भवति निष्ठान्तमौणादिकं च चेततीति चित्तं विशुद्धयतीत्यर्थः । भावविशुद्धिमुपजायमानां सञ्जानीते चेततिप्रणिदधान इति । 'अजधृसिभ्यः क्तः' (उणादिसूत्रे ३७७) क्तस्य च निष्ठासज्ञा । औणादिकं चैतच्छब्दरूपं चित्तमिति नान्यलक्षणमन्वेष्यम् 'उणादयो बहुलं' (पा० अ० ३, पा० ३, मू०१) इति चितेरपि क्तः कतरि । केन पुनः प्रकारेण विशुद्धिरित्याहएवमेभिरित्यादि । उक्तलक्षणैरालोचनादिभिः पारश्चिकावसानैः कृच्छः-दुष्करैस्तपोविशेषैनिताप्रमादः कृताप्रमादः, अप्रमत्त इत्यर्थः । तं च मूलोत्तरविषयं व्यतिक्रममतिचारमुपयुक्तः प्रायो-बाहुल्येन चेतयति । प्रायोग्रहणमत्यन्तसूक्ष्मातिचारव्युदासार्थम् । चेतयंश्च-सञ्जानानो न पुनराचरति-आसेवते तादृशमपराधमित्यतः प्रायश्चित्तमुच्यते । प्रायःशब्देन वाऽपराधोऽभिधीयते । तेनालोचनादिना सूत्रविहितेन सोऽपराधो विशुद्धयत्यपीति । अतश्च-अस्माच्च हेतोः प्रायश्चित्तमिति ॥ २२ ॥
उक्तं प्रायश्चित्तम् । अधुना विनयोऽभिधीयते । तत्प्रतिपादनायाहविनयस्य चातु- सूत्रम्-ज्ञानदर्शनचारित्रोपचाराः ॥९-२३ ॥
भा०-विनयश्चतुर्भेदः । तद्यथा-ज्ञानविनयः, दर्शनविनयः, चारित्रविनया, उपचारविनय इति । तत्र ज्ञानविनयः पञ्चविधो मतिज्ञानादिः ।
टी०-ज्ञानादयः कृतद्वन्द्वाः प्रथमाबहुवचनेन निर्दिष्टाः । एतद्विवरणायाह-विनयचतुर्भेद इति। विनयनिर्वचनमुपरि व्याख्यास्यते ताश्चतुर्धा भेदानामग्रोहमाचष्टे । तद्यथाशब्दस्तदुपन्यासार्थः । ज्ञानविनय इत्यादि । तत्र-तेषु चतुएं भेदेषु ज्ञानविनयस्तावत् पञ्च
१'चिती सज्ञाने' इति पाणिनीये (धा० ३९)। २ 'प्रहणमा' इति ङ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org