SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ तत्वार्थाधिगमसूत्रम् २५२ [ अध्यायः ९ कायोत्सर्गः कार्यः । आदिग्रहणाद् गमनागमनविहारश्रुतसावद्यस्वप्नदर्शन नौसन्तरणोच्चार - प्रस्रवणावरणपरिग्रहः । अशङ्कनीयविवेकेषु चेति । घनसंसक्तसक्तुदधितक्रादिषु न प्राणिनो विवेक्तुं शक्यन्त इत्यशङ्कनीयविवेकेषु च सक्तप्रभृतिषु प्रतिष्ठापितेषु कायोत्सर्गत एव तपः प्रायश्चित्तं भवतीति ॥ तपः प्रायश्चित्तविवक्षया त्वाह भा०—तपो बाह्यमनशनादि प्रकीर्ण चानेकविधं चन्द्रप्रतिमादि ॥ टी० - तपो बाह्यमनशनादि । प्रायश्चित्तमित्यभ्यन्तरं तपः, अनशनादि तु बाह्यम् । बाह्याभ्यन्तरता च केनचिदंशेनेत्यविरोधः । तत्रानशनग्रहणाच्चतुर्थ भक्तपरिग्रहः, श्रुतानुसारात् पञ्चमव्यवहारानुसाराच्च । तच्च मध्यमग्रहणं मध्यमग्रहणाच्चाद्यभेदपरिग्रहोऽपि । तत्राद्याः पञ्चक-दशक-विंशति-पञ्चविंशतिभेदा लघवो गुरवश्च । मासोऽपि च लघुर्गुरुः । चत्वारश्व मासा लघवो गुरवश्च । षट् च मासा लघुगुरवः मध्यं च । भिन्नमासो लघुगुरुभेदः । सर्वमेतत् तपः प्रायश्चित्तं ज्ञानदर्शनचारित्रापराधानुरूपमागमेऽतिचारविशुद्धयर्थम् । सम्प्रति पश्चमव्यवहारप्रमाणेन यतयो भूयसा विशुद्धिमाचरन्ति । तच्च निर्विकृत्याद्यष्टमभक्तान्तम् । तच्चानेकातिचारविषयम् । यथा उद्देशकाध्ययनश्रुतस्कन्धाङ्गेषु प्रमादिनः कालविनेयातिक्रमादिषु क्रमेण निर्विकृत्याद्याचाम्लान्तमनागाढयोगे, आगाढे तु पुरस्तादर्धचतुर्थभक्तान्तम् । एवमादि प्रकीर्णकं चानेकविधं चन्द्रप्रतिमादीत्युक्तलक्षणं बाह्ये तपसि प्राक् प्रपञ्चनेति ॥ छेदप्रायश्चित्ताभिधित्सयोवाच - Jain Education International भा०- छेदोऽपवर्तनमपहार इत्यनर्थान्तरम् । स प्रव्रज्यादिवसपक्ष- मास-संवत्सराणामन्यतमेषां भवति ॥ छेदस्य पर्यायाः टी० - छेदोऽपवर्तनमपहार इत्यभिन्नार्थाः पर्यायाः । स च छेदः पर्यायस्य महाव्रतारोपणकालादारभ्य गण्यते । एतदेवाह – प्रव्रज्येत्यादि । प्रव्रज्यादिवस-पक्ष-माससंवत्सराणामन्यतमेषां भवति । प्रव्रज्यादिवसो यत्र महाव्रतारोपणं कृतं तदादिः पर्यायः । तत्र पञ्चकादिच्छेदपर्यायस्य यथा यस्य तावद् दश वर्षाण्यारोपितमहाव्रतस्यापराधानुरूपः कदाचित् पञ्चकच्छेदः कदाचिच्च दशक इत्यादि यावत् षण्मासपरिमाणच्छेदो लघुगुरुर्वा, एवंविधेन छेदेन छिद्यमानः प्रव्रज्यादिवसमप्यपहरतीति । अस्य च विषयस्तपसा गर्वितः तपसोऽसमर्थस्तपञ्चाश्रद्दधानः तपसा च यो न दाम्यत्यतिपरिणामकश्चेत्यादि ॥ सम्प्रति मूलप्रायश्चित्तमभिधीयते - उपस्थापनस्य पर्यायाः भा० - परिहारो मासिकादिः । उपस्थानं पुनर्दीक्षणं पुनचरणं पुनर्ब्रतारोपणमित्यनर्थान्तरम् ॥ १' श्रुताङ्गेषु' इति ङ-पाठः । २ ' विनयता ' इति ङ-पाठः । ३ ' दिवसादिपक्ष ' इति ग-पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy