________________
२४९
व्यत्पत्ति:
सूत्रे २०-२१] स्वोपज्ञभाष्य टीकालङ्कृतम्
सूत्रम्-प्रायश्चित्त-विनय-चैयावृत्त्य-स्वाध्यायअभ्यन्तराणि षट् तपांसि व्युत्सर्ग-ध्यानान्युत्तरम् ॥ ९-२०॥
भा०-सूत्रक्रमप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । प्रायश्चित्तं १ विनयो २ वैयावृत्त्यं :३ स्वाध्यायो ४ व्युत्सर्गो ५ ध्यानं ६ इत्येतत् षड्विध अभ्यन्तरं तपः ॥ २०॥ अभ्यन्तरतपो- टी०–अन्तर्व्यापारभूयस्त्वा-दन्यतीर्थविशेषतः। लक्षणम्
बाह्यद्रव्यानपेक्षत्वा-दान्तरं तप उच्यते ॥१॥-अनु० प्रायश्चित्तादीनां ध्यानान्तानां द्वन्द्वः। मूलोत्तरगुणेषु स्वल्पोऽप्यतीचारः चित्तं मलि
.. नयतीति तत्प्रकाशनाय तच्छुद्धथैव प्रायश्चित्तं विहितं, पापच्छेदका. प्रायश्चित्तादीनां
" रित्वात् प्रायश्चित्तमिति । पृषोदरादित्वाच्छब्दसंस्कारः । प्रायो बाहु
ल्येन चित्तविशुद्धिहेतुत्वात् प्रायश्चित्तम् । विनीयते येनाष्टप्रकार कर्मापनीयते स विनयः । श्रुतोपदेशेन व्यावृत्तो-व्यग्रस्तद्भावो वैयावृत्त्यम् । सुष्टु-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽऽध्यायः स्वाध्यायः। विविधस्यानपानवस्त्रपात्रादेः संसक्तस्यातिरिक्तस्य च परित्याग उत्सर्गो व्युत्सगेः। वाकायचित्तानां आगमविधानेन निरोधो ध्यानम् । उत्तरमिति पूर्वसूत्रोपन्यस्तबाह्यतपोऽपेक्षया सूत्रानुपूर्वीप्रामाण्यादुत्तरमित्यभ्यन्तरमाह । एतदपि षट्प्रकारमभ्यन्तरं तप इति तदेतदभ्यन्तरं तपः ॥२०॥ अभ्यन्तरतपो
सूत्रम्-नव-चतुर-दश-पञ्च-दिभेदं यथाक्रम भेदनिर्देशः
प्राग् ध्यानात् ॥ ९-२१ ॥ भा०-तदभ्यन्तरं तपः नव-चतुर-दश-पञ्च-विभेदं भवति यथाक्रम प्रागू ध्यानात् । इत उत्तरं वक्ष्यामः ॥ २१ ॥ तद्यथा
टी.-नवादीनां भेदशब्दोपसंहितानां भेदशब्देन बहुव्रीहिः, द्विपदवृत्तौ समासे समानाधिकरणे बहुलमुत्तरपदलोपविज्ञानमुष्टमुखन्यायेन । नव च चत्वारश्च दश च पञ्च च द्वौ च भेदाश्च ते नवचतुर्दशपञ्चदिभेदाः। एते भेदा यस्येत्येकस्य भेदशब्दस्य लोपः । यथाक्रममिति यथासङ्खयम् । प्राग ध्यानात् प्रायश्चित्तादारभ्य यावद् व्युत्सर्ग इति । इतःअस्मात् सूत्रादुत्तरं यद् वक्ष्यामः प्रायश्चित्तादित्थंभेदमवसेयमिति ॥ २१॥
१' उत्सर्गः-परित्यागः' इति प्रतिभाति ।
३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org