SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ २५० तत्त्वार्थाधिगमसूत्रम् [ अध्यायः ९ .. तद्यथेत्यनेन सूत्रं सम्बध्नाति । अभ्यन्तरतपोभेदस्याद्यस्य निर्दिष्टविकल्पसङ्ख्यस्य तद्भेदानामाख्याविशेषप्रक्लत्यर्थमिदमुच्यतेऽत्र सूत्रम्-आलोचन-प्रतिक्रमण-तदुभय-विवेक-व्युत्सर्गप्रायश्चित्तस्य ___ नव भेदाः तप-श्छेद-परिहारो-पेस्थापनानि ॥ ९-२२ ॥ भा०–प्रायश्चित्तं नवभेदम् । तद्यथा-आलोचनं, प्रतिक्रमणं, आलोचनप्रतिक्रमणे, विवेकः, व्युत्सर्गः, तपः, छेदः, परिहारः, उपस्थापनमिति ॥ टी०-आलोचनादय उपस्थापनान्ताः कृतद्वन्द्वा नपुंसकलिङ्गेन निर्दिष्टाः । प्रायश्चित्तं नवभेदमित्यादि विवरणम् । औपसङ्ख्यानिकः सुट् । तद्यथेत्यादिना नवापि भेदान् विवेकेन दर्शयति । तदुभयमित्येतद् व्याचष्टे-आलोचन-प्रतिक्रमणे इति । तदित्यनेनालोचनं प्रतिक्रमणं च सङ्गृहीतम् । एष च तृतीयो भेदः । आलोचनादीन भाष्यकार एव क्रमेण विवृणोति । अनया मर्यादया दोषरहितः कार्याकार्याव्युत्पन्नबालजल्पितवत् सकलमतीचारमाचष्टे-प्रत्यक्षीकरोति प्रकाशयत्यालोचनाहोय गुरवे । तत्र कश्चिदतीचारः प्रकाशमात्रेणैवापोह्यते, यथाश्रुतोपदिष्टव्यापारानुष्ठायी मोक्षाय प्रयतमानोऽवश्यकरणीयेषु प्रत्युपेक्षणप्रमार्जनवैयावृत्त्यस्वाध्यायतपश्चरणाहाराघुच्चारविहारावनिचैत्ययतिवन्दनादिषु कार्येषु अत्यन्तोपयुक्तो 'निःसपत्नः प्रवर्तते व्यस्तस्थूलातिचारः सूक्ष्मास्रवप्रमादक्रियाविशुद्धयर्थमालो. चनमात्रादेव विशुध्यति । तस्यालोचनस्यैकार्थाः पर्यायाः व भा०-आलोचनं "विवरणं प्रकाशनमाख्यानं प्रादुष्करणपर्यायाः मित्यनान्तरम् ॥ टी०-आलोचनं मर्यादनं मर्यादया गुरोनिवेदनम् । पिण्डिताख्यानस्य विवरण द्रव्यादिभेदेन । प्रकाशनं गुरोश्चेतसि सम्यगतीचारसमारोपणम् । आख्यानं प्रथमं मृदुना चेतसा । प्रादुष्करणं निन्दा-गहाद्वारेण । इति-एवमनर्थान्तरम्-एकार्थत्वं परमार्थत इति ॥ प्रतिक्रमणमित्यादि स्वयमेव विवृणोति भाष्यकार: भा०-प्रतिक्रमणं मिथ्यादुष्कृतसंप्रयुक्तं प्रत्यवमर्शः प्रत्याख्यानं कायोत्सर्गकरणं च ॥ टी०-अतीचाराभिमुख्यपरिहारेण प्रतीपं क्रमणम्-अपसरणं प्रतिक्रमणम् । एतदाह-मिथ्या-अलीकमुत्सूत्रमुन्मार्गः । दुष्टं कृतं दुष्कृतं चरणविराधनमित्यर्थः । तेन सम्प्र आलोचनस्य १'प्रकृत्यर्थ' इति ङ-च-पाठः । २'स्थानानि' इति च-पाठः। ३ 'स्थानमिति' इति ग-पाठः । निष्पन्नः' इति च-पाठः। ५ 'प्रकटनं ' इति घ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy