________________
प्रस्तावना तत्त्वार्थ
योग श्रुतम् । (९-४५) विचारोऽर्थव्यञ्जनयोग- मात्रनिर्भासा निर्वितर्का । (१-४३) एतसङ्क्रान्तिः । (९-४६)।
यैव सविचारा निर्विचारा च सूक्ष्मविषया
व्याख्याता । (१-४४) (१६) मोहक्षयाज्ज्ञानदर्शनावरणान्तराय- (१६) तारकं सर्वविषयं सर्वथाविषयमक्रम क्षयाच केवलम् । (१०-१)
चेति विवेकजं ज्ञानम् । (३-५४) (१७) (९-३) कृत्स्नकर्मक्षयो मोक्षः। (१७) तद्भावात् संयोगाभावो हानं तद् (१०-३)
दृशेः कैवल्यम् । (२-२५) तत्त्वार्थसूत्रे (६-११) 'ज्ञानावरण 'प्रयोगः, योगदर्शने (२-५२, ३-४३) 'प्रकाशावरण 'प्रयोगः । तत्त्वार्थ(८-१२ )भाष्ये 'वज्रर्षभनाराचसंहनन 'प्रयोगः, योगदर्शने (३-४६) 'वज्रसंहनन'प्रयोगः । तत्त्वार्थे (६-१४) 'केवलि 'शब्दः, योगदर्शन(२-२७)भाष्येऽप्ययं शब्दः । योगदर्शने (२-४ ) अविद्यायाः प्रधानता, यथा जैनदर्शने मिथ्यात्वस्य । योगदर्शने (२-२४) अनादिसंयोगस्याधीनतारूपेणाविद्याया उल्लेखः, यथा जैनदर्शने अनादिबन्धस्याधारो मिथ्यादर्शनम् । योगदर्शने (२-३९, ३-१६) संयमजनितविभूतीनां दिग्दर्शनम् एवं तत्त्वार्थेऽपि ।
वाचकसमयपरामर्श:
प्रणीतप्रवचनोन्नतिहेतुप्रशमरति-तत्त्वार्थाधिगम-पूंजाप्रकरणाद्यनेकमहाशास्त्राणां पूर्वगतवेदिनां श्रीउमास्वातिवाचकवर्याणां सत्तासमयनिर्णयात्मकानि साधनानि स्वल्पानि प्राप्यन्ते । भाष्यान्तगतप्रशस्तौ तेषां तदीक्षागुरुप्रगुर्वादीनां वा समयनिर्देशो नास्ति । उच्चैनांगरशाखोल्लेखस्तु वर्तते किन्तु किमियं कल्पसूत्रस्थविरावलीनिर्दिष्टाऽऽर्यशान्तिश्रेणिकनिर्गता चास्ति न वेति शङ्कास्पदम् । एवं परिस्थित्यां सर्वार्थसिद्धर्भाष्यस्य प्राचीनतेति निर्णयः कञ्चन प्रकाशं जनयति । अनेन वैक्रमीयपञ्चमीषष्ठीशताब्दीतो वाचकवर्या नार्वाचीना इति फलति । समयनिर्णये विविधानि मतान्तराण्यवतरणानि च सहायकारीणि, परन्तु तत्तत्कर्तृविषयकं ज्ञानमपि न यथास्थितमिति निरुपाया वयम् ।
१ समीक्ष्यतां यदुक्तं शौचप्रकरणमाश्रित्य तत्त्वार्थटीकाया द्वितीये विभागे ७७तमे पृष्ठे । २ प्रेक्ष्यतां चन्द्रकुलाम्बरनिशाकरश्रीशान्तिसूरिसङ्कलिते स्वोपज्ञवृत्तिविभूषिते च धर्मरत्नप्रकरणे ६६ तमं पत्रम्। ३ एतेषां सत्तासमयो वीरनिर्वाणात् ४७१ वर्षप्रायः। ४ एतदर्थ विलोक्यन्तां ४४, ५१, ७५, १०९, १६२ इत्याद्यकात्मकानि पृष्ठानि प्रथमस्य विभागस्य ।
५ एतत्स्थलानि ४४, ११०, १६२ इत्याद्यङ्कितानि पृष्ठानि । अत्र पाणिनिप्रणीतव्याकरणगते अवतरणे पूर्वस्य शब्दप्राभृताभिधग्रन्थगते इत्यनुमीयते तत्त्वार्थटीकायाः ५०तमपृष्ठावलोकनेन ।
६ अनेन ( अ. ३, सू. १) भाष्यगतः खण्डनात्मक उल्लेखोऽनुवीचि ( भा० ७,३ )-पेडा ( भा० १०,६ )देशीशब्दप्रयोगोऽपि ज्ञेयौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org