SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ प्रस्तावना श्रीसिद्धसेनगणीनां समय: श्रीसिद्धसेनगणीनां परिचये स्वनिर्मिततत्त्वार्थटीकाप्रशस्तिः साधनम् । परन्तु तत्र तेषां तद्गुर्वादीनां वा समयनिर्देशात्मक उल्लेखो न विद्यते । एवं सति टीकानिरूपणेनैव तेषां समयस्य निर्णयः कथञ्चित् भवेत् । तत्र निर्दिष्टग्रन्थावतरणादीनां मूलस्थलानामवगमने मार्गः सरलः स्यात् । एभिर्वसुबन्धु-धर्मकीयादिविदुषां नामधेयान्युल्लिखितानि । धर्मकीर्तेः समयः सप्तमा शताब्दी। अनेनेदं स्फुटं भवति यदुतैते नैतेषां पूर्वगामिनः । यद्यपि हिमवन्तपट्टावल्यांद्याधारैण श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इत्यवगम्यते तथापि पण्डितसुखलालाभिप्रायो यदि स्वीक्रियते तर्हि श्रीआचाराङ्गटीकायां तत्प्रणेतृभिः श्रीशीलाङ्कसूरिभिः कृताभ्यामुल्लेखाभ्यामेतेषां सत्ता नवमशताब्दीतो पूर्विकेत्यनुमीयते। सङ्ख्यावन्त इतिहासज्ञा निर्णय करिष्यन्तीति तेभ्यः प्रार्थयामि सहृदयसाक्षरकृपाकानी हीरालाला। १-३ ग्रन्थसूचीविशिष्टनरनगरादिसूचिरवतरणानामकाराद्यनुक्रमश्च मया रच्यमाना वर्तन्ते, परन्तु प्रकाशनविलम्बनसहनाक्षमेण प्रकाशकेनात्र तन्मुद्रापणं दुःशकं भाति । ४ तर्करहस्यदीपिकायाः ८१तमे पत्रेऽयमुल्लेखः ___“ यथोक्तं श्रीगन्धहस्तिना महातर्के-द्वादशाङ्गमपि श्रुतं विदर्शनस्य मिथ्या ।" 'तदुक्तं च प्रवचने ' इत्युल्लेखपुरस्सरेयं पतिरवतरणरूपेणावतारिता श्रीदेवगुप्तसूरिभिस्तरवार्थटीकायां द्वितीये पृष्ठे । यदीयं सन्दब्धा पण्डितसुखलालमतानुसारेण श्रीगन्धहस्तिभ्योऽभिन्नैः श्रीसिद्धसेनगणिभिस्तर्हि श्रीदेवगुप्तसूरयः एतत्पूर्वानुगामिनो नेत्यनुमीयते। इयं पतिः श्रीसिद्धसेनगणिगुम्फिततत्त्वार्थटीकायां न दृश्यते मया। कदाचित् सत्यामपि श्रीगन्धहस्तीति नामपूर्वकाणां विविधानां निर्देशानामत्र सर्वाङ्गीणसादृश्याभावेन श्रीसिद्धसेनगणयः श्रीगन्धहस्तिभ्यो भिन्ना इति मे मतिः। अपरश्च सम्बन्धकारिकाटीकाप्रारम्भगतेन तृतीयेन पद्येनानुमीयते यदुतैतट्टीकाया विस्तृततरा अपि कतिपया विवृतय आसन् । तासु विशालतमकाया विवृतिः श्रीगन्धहस्तिप्रणीता स्यादिति मां भाति । निर्णयात्मकनिर्देशकरणे तु विशेषज्ञा अलम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy