________________
२२६
तत्वार्थाधिगमसूत्रम् .. [अध्यायः९ षड्विधश्चानवस्थितः कल्पः । यथोक्तम्अनवस्थितस्य " आचेलक्यौदेशिक-नृपपिण्डत्याग-मासकल्पाश्च । पानिध्यम् वर्षाविधिः प्रतिक्रमणविधानं वाऽनवस्थिताः कल्पाः ॥१॥" आद्यचरमतीर्थकरतीर्थवर्तिनां तु दशविधो व्यवस्थितः कल्पः ।
अस्य तु पुनर्भगवतस्तीर्थे श्रीवर्धमानचन्द्रस्य ।
स्थित एवेष्टः कल्पः स्थानेषु दशस्वपि यथावत् ॥१॥ किं पुनः कारणमेतदेवं तीर्थकृतां विषममुपदेशनम् ?
"आर्जव-जडा अनार्जव-जडा वृषभ-वीरतीर्थकालभवाः।
मनुजा यस्मात् तस्मात् , कल्पः स्थित एव स प्रोक्तः॥१॥" सत्यमुक्तमाचेलक्यम् । तत् तु यथोक्तं तथा कर्तव्यम् । तीर्थकरकल्पस्तावदन्य एव, मति-श्रुता-ऽवधिज्ञानिनः प्रतिपन्नचारित्रास्तु चतुज्ञोनिन इति युक्तमेव तेषां पाणियात्रभोजित्वमेकदेवदृष्यपरिग्रहाश्च । साधवस्तु तदुपदिष्टाचारानुष्ठायिनो जीर्णखण्डितासर्वतनुप्रावरणाः श्रुतोपदेशेन विद्यमानैवंविधवाससोऽप्यचेलका एव । यथाऽऽपगोत्तरणे शाटकपरिवेष्टितशिराः पुरुषो नग्न उच्यते सवस्त्रकोऽपि, तथाऽत्र गुह्यप्रदेशस्थगनाय गृहीतचोलपट्टकोऽपि नम एवेति । योषिच्च काचित् परिपूर्णशाटिकापिधाना तन्तुवायमाह-ननाऽहं, देहि मे शाटिकामिति । एवं साधवोऽप्यमहाधनमूल्यानि खण्डितानि जीर्णानि च विभ्रतः श्रुतोपदेशाद् धर्मबुद्धया नाग्न्यभाज एवेति । चारित्रसूत्रे शुद्धपारिहारिकान वक्ष्यामः ॥
___ यथालन्दिकास्तु भण्यन्ते । लन्दमिति कालस्याख्या। तच्च पञ्चरात्रं, तेषां हि पञ्चको गच्छः, सामाचारी तु तेषां जिनकल्पिकैस्तुल्या, सूत्रप्रमाणभिक्षाचर्याकल्पान् विहाय, तत्रापरिसमाप्ताल्पसूत्रार्थास्तु गच्छप्रतिबद्धाः । परिसमाप्तास्त्विप्रतिबद्धाः। तत्र केचित् जिनकल्पिकाः केचित् स्थविरकल्पिका यथालन्दिनः । तत्र जिनकल्पिकाः निष्प्रतिकर्मशरीराः
समुत्पनरोगाश्चिकित्सायां न प्रवर्तन्ते, नेत्रमलाद्यपि नापनयन्ति, स्थविरजिनकल्पः कल्पिकास्तूत्पन्नरोगं गच्छे प्रक्षिपन्ति । गच्छोऽपि प्रासुकैषणीयेन परिकर्म करोति भैषजादिना । स्थविरकल्पिकास्त्वेकैकप्रतिग्रहधारिणः सप्रावरणाः । जिनकल्पिकानां तु वस्त्रपात्राणि भाज्यानि । एकत्र पश्चपञ्चरात्रचारिण एते। गणप्रमाणं जघन्यतस्त्रयो गणाः, शतश उत्कृष्टाः । भिक्षाचर्या तु तेषां पञ्च पञ्चैव, एकैकवीथौ चरन्तः पञ्चभिः षट्कर्मासकल्पं परिसमापयन्ति । स्थितास्थितकल्पयोश्च द्वयोरपि ते भवन्ति । एवमेते जिनकल्पिकादयो गच्छनिर्गतास्तत्र यद्येवंविधं नान्यमिष्यते तदों नागमोपरोधः। अथ परिधानकपरित्यागमात्रं ततस्तदप्रमाणकं न मनांसि प्रीणयति जैनेन्द्रशासनानुसारिणामिति । स्थविरकल्पिकास्तु चतुर्दशविधोपधयः उत्सर्गापवादव्यवहारिणः औपग्रहिकोपधिधारिणश्च । प्रव्रज्यादिद्वार
१ 'महार्घमूल्यानि' इति ङ-पाठः। २ 'काद् वक्ष्यामः' इति ङ-पाठः। ३ एकत्र पञ्चरात्र' इति ङ-पाठः । 'कल्पिकयो' इति उ-पाठः। ५'ततो' इति ङ-पाठः। ६'औषधप्राहिको' इति च-पाठः। ७'धारणाच' इति -पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org