________________
सूत्र ९] . स्वोपज्ञभाष्य-टीकालङ्कृतम् .
२२५ उष्णमापतितं सम्यक सहेत । न चातपत्राशुष्णवारणायाददीतेति । देशमशकादिभिः दश्यमानोऽपि न ततः स्थानादपगच्छेत् , न च तदपनयनाथ धूमादिना यतेत, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीषहजयः कृतः स्यात्, नान्यथेति ।
नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत् । किं तर्हि ? प्रवचनोक्तविधानेन नाग्न्यम् । प्रवचने तु द्विप्रकारः कल्पः-जिनकल्पः स्थविरकल्पश्च । तत्र स्थविरकल्पे परिनिष्पन्नः, क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः। ततो द्वादश
वर्षाणि सूत्रग्रहणं पश्चात् द्वादश वर्षाण्यर्थग्रहणं ततो द्वादशवर्षाण्यस्थविरकल्पः नियतवासी देशदर्शनं कुरुते । कुर्वन्नेव च देशदर्शनं निष्पादयति
शिष्यान् । शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यते अभ्युद्यतविहारम् । स च त्रिविध:-जिनकल्पः शुद्धः परिहारो यथालन्दश्च । तत्र जिनकल्पप्रतिपत्तियोग्य एवं जिनकल्प प्रतिपत्तुकाम: प्रथममेव तपःसत्त्वादिभावनाभिरात्मानं भावयति । भावितात्मा च द्विविधे परिकर्मणि प्रवर्तते । यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्माचेष्टते । अथ
... पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्तते । तत्र यः कल्पे उपा
या पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यतया रजोहरणं मुखवस्त्रिका च । कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा । प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यतया, कल्पग्रहणाद् दशविध एकादशविधो (द्वादशविधो) वा उपधिरागमाभिहितः। एवंविधं नाग्न्यमिष्टम् । दशविधसामाचार्यों चेमाः पञ्च तेषां सामाचार्यः आप्रच्छनं मिथ्यादुष्कृतमावश्यका निशीथि(षेधि ?)का गृहस्थोपसम्पच्च । उपरितनी वा त्रिप्रकारा सामाचारी आवश्यकादिका । श्रुतसम्पदपि तेषामाचारवस्तु नवमस्य पूर्वस्य जघन्यतः । तत्र हि कालपरिज्ञानं न्यक्षेण, उत्कर्षण दश पूर्वाणि भिन्नानि, न सम्पूर्णानि । वज्रर्षभनाराचसंहननाच ते वज्रकुड्यकल्पधृतयः । स्थितिरपि तेषां क्षेत्रादिका अनेकभेदा । क्षेत्रतस्तावद् जन्मना सद्भावेन च सर्वास्वेव कर्मभूमिषु, संहरणतः कदाचित् कर्मभूमावकर्मभूमौ वा, अवसर्पिण्यां कालतः तृतीयचतुर्थयोः समयोर्जन्मतः त्रिचतुर्थपञ्चमीषु सद्भावः । चतुर्थी लब्धजन्मा पञ्चम्यां प्रव्रजति । उत्सर्पिण्यां दुषमादिषु त्रिषु कालविभागेषु जन्म, द्वयोस्तु सद्भावः। सामायिकच्छेदोपस्थाप्ययोर्जिनकल्पप्रतिपत्तिधरणयोः । एवं तीर्थपर्यायागर्मवेदादिकाऽपि स्थितिरुपयुज्यागमानुसारेण वाच्या ।
ननु चाचेलक्यादिर्दशविधः कल्पः । तत्राचेलक्यं स्फुटमेवोक्तम् । तत्र च मध्यमतीर्थवर्तिनां सामायिकसंयतानां चतुर्विधः कल्पोऽवस्थितोऽवश्यतया करणीयः । यथाऽऽहअवस्थितकल्पस्य "शय्यातरपिण्डत्यागः कृतिकर्म च तथा व्रतादेशः। चातुर्विध्यम् पुरुषज्येष्ठत्वं हि, चत्वारोऽवस्थिताः कल्पाः ॥ १॥"
१'त्राणाया०' इति च-पाठः । २'तत्र ग्रहणं' इति उ-पाठः । ३' स्थापनयोः' इति ग-पाठः । 'वेषादि ' इति -पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org