SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २२४ तत्वार्थाधिगमसूत्रम् [ अध्यायः ९ परीषदाः । तथा ज्ञानावरणादिकर्मक्षपणार्थ च (परि) सोढव्याः सिद्धि [ प्रस्थान ] प्राप्तिकारणसंवरविनहेतवः परिषोढव्याः, परीषहा इति निर्वचनम् । समन्तादापतन्तः क्षुत्पिपासादयो द्रव्यक्षेत्र कालभावापेक्षाः सोढव्याः - सहितव्याः परीषहा भण्यन्ते । " कृत्यल्युटो बहुलं " ( पा० अ० ३, पा० ३, सू० ११३ ) इति करणाधिकरणाभ्यामन्यत्रापि कर्मणि घप्रत्ययः । परिसान्त इति परीषहाः ॥ ८ ॥ कियन्तस्ते किंनामानः किंस्वरूपाश्चेत्याह भा०-- तद्यथा टी० – तद्यथेति सङ्ख्यादिनिरूपणोपक्रमणम् । सूत्रम् - क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाचना लाभरोग तृणस्पर्शमलसत्कारपुरस्कार प्रज्ञाऽज्ञानादर्शनानि ॥ ९-९ ॥ २२ परीषाहाः टी० - क्षुत्पिपासेति सूत्रम् । क्षुत्पिपासादयः परीषहा द्वाविंशतिर्नामतः क्षुदादिनामानः । स्वरूपमपि शब्दार्थेनावेदितमेव । सङ्ख्यादीनां त्रयाणामपि प्रदर्शनं करोति भाष्यकार:-- भा० - क्षुत्परीषहः १ पिपासा २ शीतं ३ उष्णं ४ दंशमशकं ५ नायं ६ अरतिः ७ स्त्रीपरीषहः ८ चर्यापरीषहः ९ निषद्या १० शय्या ११ आक्रोशः १२ वघः १३ याचनं १४ अलाभः १५ रोगः १६ तृणस्पर्शः १७ मलं १८ सत्कारपुरस्कार: १९ प्रज्ञाऽज्ञाने २०-२१ अदर्शन परीषहः २२ इति ॥ टी० - क्षुद्वेदनामुदितां शेषवेदनातिशायिनीं सम्यग् विषहमानस्य जठरान्त्रविदाहिनीमागमविहितेन विधिना क्षुधां शमयतोऽनेषणीयं च परिहरतः क्षुत्परीषहजयो भवति । अनेषणीयग्रहणे तु न विजितः स्यात् क्षुत्परीषहः । एवं पिपासापरीषहः । एषणीयभावे तु प्राणिदयालुना समस्तमनेषणीयं परिहरता शरीरस्थितिः कार्या । शीतपरीषहजयस्तु शीते पतति महत्यपि जीर्णवसनः परित्राणवर्जितो नाकल्पानि वासांसि गृह्णाति शीतत्राणाय । आगमविहितेन विधिना एवणीयमेव कल्यादि गवेषयेत् परिभुञ्जीत वा । नापि शीतार्तोऽभिं ज्वालयेत् । अन्यज्वालितं वा नासेवेत । एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति । एवमुष्णततोऽपि जलावगाहनस्नानव्यजनवातादि वर्जयेत्, अभिधारितच्छायादि वा । अत १ ' क्षुधादि' इति च-पाठः । Jain Education International २ ' नैषणायां च ० ' इति ङ-च-पाठः । For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy