SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ सूत्र ८] स्वोपज्ञभाष्य टीकालङ्कृतम् २२३ तथोक्तः। संसारो नरकादिगतिचतुष्टयं तसानिर्वाहको निस्तारकः । न चासावभावीभवति मुक्तावस्थायामित्याह___ भा०-निःश्रेयसप्रापको भगवता परमर्षिणाऽहंताऽहो स्वाख्यातो धर्म इत्येवमनुचिन्तयेत् । एवं यस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मार्गाच्यवने तदनुष्ठाने च व्यवस्थानं भवतीति धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥१२॥७॥ टी-निःश्रेयसप्रापक इति । निश्चितं श्रेयो निःश्रेयसं-स्वात्मन्येवावस्थानं समस्तकर्मापेतस्य निःश्रेयसमुच्यते तस्य प्रापकः, तस्य पर्यायान्तरस्योत्पादक इत्यर्थः । यशोविभवादियुक्तो भगवान्, परमर्षिरिति समधिगतसकलज्ञानस्तीर्थकरनामकर्मोदयात् तीर्थस्य प्रणायकः चन्दनपूजाधोऽहन, तेनामोघवचनेन स्वाख्यातो अहो इत्याश्चर्ये नापरेण केनचिदेवं कथितः, सुत्सगोपवादलक्षणः, ख्यातो धमें इत्येवमस्य धर्मस्वाख्यातत्वमनुचिन्तयतो मागोच्यवने तदनुष्ठाने वाऽवस्थानं भवतीति । मार्गो-रत्नत्रयं मुक्तेः पन्थाः तस्मादच्यवनम्-अप्रच्यवनमनपेतत्वम् । तदिति मार्गस्य सम्बन्धः, तस्यानुष्ठानंश्रद्धानं स्वाध्यायक्रिया चरणम् । एतदेव परमार्थतोऽच्यवनं मार्गाद् यथोक्तक्रियाऽनुष्ठानमित्येषा धर्मस्वाख्यातत्वानुचिन्तनानुप्रेक्षा ॥७॥ . भा०–उक्ता अनुप्रेक्षाः । परीषहान वक्ष्यामः टी०-उक्ता अनुप्रेक्षाः सोदाहरणाः । सम्प्रति परीषहान वक्ष्याम इति प्रतिजानीते १ सूत्रम्-मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परीहेतू पहाः॥९-८॥ भा०-सम्यग्दर्शनादेर्मोक्षमार्गादच्यवनार्थ कर्मनिर्जरार्थ च परिषोढव्याः परीषहा इति ॥८॥ टी-अर्थशब्दः प्रत्येकमभिसम्बध्यते-मार्गाच्यषनार्थ निर्जरार्थ च । परीपहाधिसहने मार्गाच्यवनं प्रयोजनम् । कदाचित् क्लिष्टचित्तः क्लीयत्वात् सहनासमर्थः सन्मार्गात प्रच्यवेतापि अतस्तत्सहनादरः मार्गः, तस्य तु सम्यगधिसहमानस्य गिरेरिव निष्प्रकम्पचेतसो निराकुलध्यानस्य जायते कर्मनिरा । एतदेवाह-सम्यग्दर्शनादेरित्यादिना । तत्वार्थश्रद्धानादिलक्षणो मार्गो निवृतेरात्यन्तिक्याः, तस्या मार्गान्मा प्रच्योष्महीति सह्यन्ते १ 'निःसारकः' इति च-पाठः । २ मर्षिणाऽहो ख्यातो धर्म' इति ग-पाठः। ३ 'स्वाख्याततत्त्व.' इति घ-पाठः। ४ 'आत्मन्येव ' इति ङ-पाठः। ५ — विभावादि ' इति घ-पाठः। ६ 'कुलस्य ध्यानक(?)जायते' इति ग-च-पाठः। ७'श्रद्धानाश्रद्धानादि'इतिग-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy