SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ २२२ तत्वार्थाधिगमसूत्रम् , [ अध्यायः ९ अनादौ संसारे इत्यादिना बोधिदुर्लभत्वानुप्रेक्षां निरूपयति भा०-अनादौ संसारे नरकादिषु तेषु तेषु भवग्रहणेष्वनन्तकृत्वः परिवर्तमानस्य जन्तोर्विविधदुःखाभिहतस्य मिथ्यादर्शनाद्युपहतमतेर्ज्ञानदर्शनावरणमोहान्तरायोदयाभिभूतस्य । ____टी०-अनादाविति सर्वकालावस्थायिनि । संसारे किंसपेरूपेण नरकादिष्वित्याह, तेषु तेषु भवग्रहणेष्विति । तेष्वेव नरक-तिर्यङ्-मनुष्या-ऽमरभवग्रहणेषु पुनः पुनश्चक्रवत् परिभ्रमतोऽनन्तकृत्वः प्राणिनः शारीरमानसैर्नानाप्रकारैर्दुःखैरालीढस्य तत्वार्थाश्रदानाविरतिप्रमादकषायादिभिरुपहतमतेः, ज्ञानावरणाादयाभिभूतस्य-ज्ञानावरणादिकर्मचतुष्टयं पातिकर्म विशेषतो मोहनीयं सम्यग्दर्शनादिमार्गस्य विघातकमित्येतदाह । भा०-सम्यग्दर्शनादिविशुद्धो बोधिदुर्लभो भवतीत्यनुचिन्तयेत् । एवं यस्य बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभस्वानुप्रेक्षा ॥ ११॥ टी०-सम्यग्दर्शनादीत्यादि । सम्यग्दर्शनविरत्यप्रमादकषायविशुद्धो बोधिदुर्लभो पाठभेदः . - भवतीति विभक्तिविपरिणामेनाभिसम्बन्धनीयम् । जन्तुना दुर्लभ इति । भवत बोधिशब्देनात्र चारित्रमेव विवक्षितम् । अथवा पाठान्तरं सम्यग्दर्शनादिविशुद्धो बोधिः सम्यग्दर्शनादिरेव बोधिरपगतसकलशङ्कादिदोषरहितो दुःखेन लभ्यत इति । एवं बोधिदुर्लभत्वमनुचिन्तयतो बोधि प्राप्य प्रमादो न भवतीति बोधिदुर्लभत्वानुप्रेक्षा ॥ स्वाख्यातधर्मानुप्रेक्षाप्रतिपादनायाह भा०-सम्यग्दर्शनद्वारः पञ्चमहाव्रतसाधनो बादशाङ्गोपदिष्टतत्त्वो गुप्त्यादिविशुद्धव्यवस्थानः संसारनिर्वाहकः। टी०–सम्यग्दर्शनद्वार इत्यादि । तत्वार्थश्रद्धानलक्षणं सम्यग्दर्शनं तत् द्वार-मुखं यस्य धर्मस्येति । नहि सम्यग्दर्शनप्रतिष्ठामन्तरेण महाव्रतादिलाभः समस्ति । प्रागेव सम्यग्दर्शनं द्वारभूतं धर्मानुष्ठानस्येति प्रतिपादयति, सम्यग्दर्शनद्वारेण धर्मावगाह इति । पञ्च महाव्रतानि साधनं यस्येत्यनेन समस्तमूलोत्तरगुणपरिग्रहः । आचारादीनि दृष्टिवादपर्यन्तानि द्वादशाङ्गानि-अर्हदाप्तप्रणीतागमः तेनोपदिष्टं तत्त्वं-स्वरूपं यस्य धर्मस्य, चरणकरणलक्षणस्येत्यर्थः । गुप्तिसमितिपरिपालनविशुद्धं व्यवस्थानमस्येति । गुप्तिभिः समितिभिश्च परिपालन-परिरक्षणं विशुद्धं-निर्मलं व्यवस्थान-स्वरूपावस्थानं यस्य स १ स्वरूपे इति ग-पाठः। २ — दर्शनाधारभूतं ' इति ङ-पाठः। ३ “धर्माचार्यस्य इति -पाठः । .. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy