________________
सूत्रं ७ ]
स्पेपज्ञभाष्य–टीकालङ्कृतम्
२२१
मनीषितं तु तेन तपःपरीषहजयाभ्यां मोक्षः प्राप्यः । तत्र या प्रवृत्तिस्तपसि परीषहजये वा सा बुद्धिपूर्विका विपाक हेतुरिति । तस्मादेवमनुचिन्तयन् कर्मनिर्जरणायैव घटते इति निर्जरानुप्रेक्षा ॥ ९ ॥
भा० - पञ्चास्तिकायात्मकं
पञ्चास्तिकायात्मकमित्यादिना लोकानुप्रेक्षास्वरूपं निरूपयतिविविधपरिणाममुत्पत्तिस्थित्यन्यतानुग्रहप्रलययुक्तं लोकं चित्रस्वभावमनुचिन्तयेत् । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा ॥ १० ॥
टी० – पञ्चास्तिकायात्मकमित्यादिना । पञ्चास्तिकाया धर्मा-धर्माऽऽकाश-पुद्गलजीवाख्यास्ते आत्मानः- स्वरूपमस्येति, लोकमित्युपरिष्टाद् वक्ष्यति । विविधो - नानाप्रकारः परिणामो यस्येति, तमेवंविधपरिणामं दर्शयति – उत्पत्तिस्थितीत्यादि । उत्पत्तिर्द्विविधाप्रतिक्षणवर्ती कालान्तरवर्तिनी च । प्रतिक्षणवर्तिनी च अविभाव्यान्त्यउत्पत्तेद्वैविध्यम् प्रलयानुमेया, प्रतिक्षणमन्यथाऽन्यथा चोत्पद्यन्ते परिणमन्ते भावा अस्तिकायाः । कालान्तरवर्तिनी मृद्रव्यं पिण्डाद्याकारेण मृद्भावं प्रेक्षीणमपहाय पिण्डादिरूपेण परिणमते । स्थिति:- अवस्थानं [ अस्तिकाय इति] अस्तिकायरूपेण सर्वदा व्यवस्थानात् । धर्मास्तिकायादिव्यपदेशमजहतः ते सर्वदा व्यवतिष्ठन्ते वचनार्थ पर्यायैः । अन्यता तूत्पत्तिस्थितिभ्यामन्यत्वं - विनाशः । सोऽपि द्विविधः - क्षणिकः कालान्तरवर्ती च । विवक्षितक्षणाद् द्वितीयक्षणेऽन्यत्वमवश्यम्भावीत्यवस्थान्तरापत्तिरेव विनाशः, न निरन्वयः क्वचिदस्ति प्रलयः । स्थित्युत्पत्ती अनुग्रहकारिण्यौ सवानाम् । घटो हि समुत्पमस्तिष्ठंश्च जलाहरणधारणादिरूपेणानुगृह्णाति । प्रलयोऽपि कालान्तरभावी भवत्यनुग्राहको विनाशसंज्ञितः । कुण्डलार्थिनः कटकविनाशवत् । अत एव (भिः १) उत्पत्यादिभिर्युक्तमुत्पत्या - दिपरिणतिस्वभावं लोकं जीवाजीवाधारलक्षणं क्षेत्रम् । अत एव चित्रस्वभावमिति । चित्रो - नानाप्रकारः स्वभावः - स्वरूपं यस्य सुखदुःखप्रकर्षापकर्षरूपत्वात् वैचित्र्याच्च कर्मपरिणतेः । एवं ह्यस्य चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवतीति लोकानुप्रेक्षा । एवम्उक्तेन प्रकारेण लोकस्वरूपमभिध्यायतस्तच्वेषु जीवाजीवादिषु पदार्थेषु विशुद्धं निर्मलं शङ्कादिदोषरहितं ज्ञानं भवति । यथा भगवद्भिरुक्तम् (आवश्यके १) - "सन्न ( व्वाई) ठाणाई असासयाई” ति । न कचिदस्मिन् व्यावर्णितलक्षणे लोके किञ्चित् स्थानमस्ति शाश्वतं यंत्रात्यन्तिकी निर्वृतिरात्मनो भवतीत्याह । परलोकनिरपेक्षस्य च मोक्षायैव चेतोवृत्तिरनुगुणा भवतीति लोकानुप्रेक्षा ॥
१ — उत्पत्तिस्थित्यनन्तानुग्रहप्रलययुक्त ' इति ङ-पाठः । २' प्रकीर्णमय' इति ङ-च-पाठः । ३ छाया-सर्वाणि स्थानानि अशाश्वतानि इति ४ 'यत्रौत्पत्तिकी' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org