________________
सूत्र १ . स्वोपक्षमाष्य टीकालङ्कृतम्
२२७ समपिगम्याः आचार्यो-पाध्याय-स्थविर-भिक्षु-क्षुल्लकविभागाः मासकल्पविहारिणः परितनुकमूल्यवसनस्थगिताग्रिमभागाः वर्षाकल्पादिपरिभोगकारिणः दशविधसामाचार्यनुष्ठायिनः उद्गमोत्पादनैषणादिशुद्धाहारोपधिशय्यासेविनश्चेति । एवं जिनकल्पिकादीनां गच्छवासिनां च पारमर्षप्रवचनानुसारिणां नाग्न्यपरीपहजयः सम्भवतीति, नान्येषाम् ।
अरतिः उत्पद्यते कदाचिद् विहरतः तिष्ठतो वा सूत्रोपदेशेन, तत्रोत्पन्नारतिनाऽपि सम्यग्धर्मारामरतेनैव भवितव्यम्, एवमरतिपरीषहजयः स्यादिति ।।
स्त्रीणामङ्गप्रत्यङ्गसंस्थानहसितललितविभ्रमादिचेष्टाश्चिन्तयेत् न जातुचित्, चक्षुरपि न तासु निवेशयति मोक्षमार्गार्गलासु कामबुद्धया, एवं स्त्रीपरीषहजयः कृतो भवति ।
. तर्जितालस्यो ग्रामनगरकुलादिष्वनियतवसतिनिर्ममत्वः प्रतिमासं चर्यामाचरेदित्येवं चर्यापरीषहजयः।
निषीदन्त्यस्यामिति निषद्या-स्थानं स्त्रीपशुपण्डकविवर्जितमिष्टानिष्टोपसर्गजयिना तत्रानुद्धिनेन निषद्यापरीषहजयः कार्यः ।
शय्या-संस्तारकः मञ्चकादिपट्टो वा मृदुकठिनादिभेदेनोच्चावचः प्रतिश्रयो वा पांसूत्करप्रचुरः शिशिरे बहुधर्मको वा तत्र नोद्विजेत कदाचनेति शय्यापरीषहजयः।
__आक्रोश:-अनिष्टवचनं, तद् यदि सत्यं कः कोपः ? शिक्षयति हि मामयमुपकारी, न पुनरेवं करिष्यामीति । असत्यं चेत् सुतरां कोपो न कर्तव्य इत्याक्रोशपरीषहजयः।
वधः-ताडनं पाणिपाणिलताकशादिभिः। तदपि शरीरमवश्यंतया विध्वंसत एवेति मस्वा सम्यक सहितव्यम्, अन्यदेवेदमात्मनः पुद्गलसंहतिरूपम् , आत्मा पुनने शक्यत एव ध्वंसयितुम् । अतः स्वकृतकर्मफलमुपनतमिदं ममेति सम्यक् सहमानस्य वधपरीषहजयः।
याचनं-मार्गणं भिक्षोर्वस्त्र-पात्रा-उन-पान-प्रतिश्रयादेः परतो लब्धव्यं सर्वमेव । शालीनतया च न याच्या प्रत्याद्रियते, साधुना तु प्रागल्भ्यभाजा याचनमवश्यमेव कार्यमित्येवं याच्यापरीषहजयो विधेयः।।
अलाभस्तु याचिते सति प्रत्याख्यानं विद्यमानमविद्यमानं वा न ददाति, यस्य स्वं तत् कदाचित् वा दत्ते, कदाचिन, कस्तत्रापरितोषो न यच्छति सति । यथोक्तम् (दशवै० अ०५, उ० २)-बहुं परघरे अत्थि" इत्यादि । अलामेऽपि समचेतसैव अविकृतस्वान्तेनैव भवितव्यमित्यलाभपरीषहजयः।
१ 'अनृतं ' इति ङ-पाठः। २ याचनया० ' इति ङ-पाठः । ३ सम्पूर्ण पद्यं साक्षीभूतपाठरूपेण दृश्यते श्रीजिनसूरप्रणीतायां प्रियङ्करनृपकथायां (पृ. १२), तच्चैवम्
"बहुं परघरे अस्थि विविहं खाइमं साइमं । न तत्थ पंडिओ कुप्पे इच्छा दिज परो नवा ॥"
एतच्छाया यथा
बहु परगृहेऽस्ति विविधं खादिमं स्वादिमम् । न तत्र पण्डितः कुप्येत् इच्छया दद्यात् परो न वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org