________________
२१८ तत्त्वार्थाधिगमसूत्रम् ..
[ अध्यायः १ तस्याः स्रोत:-प्रवाहः तस्य वेगः-(सं)सर्पणविशेषः तद्वत् तीक्ष्णान् । यथा स नदीप्रवाहः
तृणकाष्ठादि पतितमपहरति, एवमेते चक्षुरादयः स्वप्रवाहपतितमात्मानमउत्तरार्धस्य पहरन्ति, सन्मार्गाद् भ्रंशयन्ति । अकुशल-पापं सामान्येन वा कर्मबन्धअर्थद्वयम् स्तस्यागमः-प्रवेशस्तवारभूतान्, कुशलस्य च पुण्यस्य दशविधधर्मस्य
निर्गमद्वारभूतान्। इन्द्रियमादिर्येषां ते इन्द्रियादयस्तानवद्यतः-खण्डयतो जीवस्यापकारिणश्चिन्तयेत्। अथवा अवयं-गर्हितं गर्हितान् पापान इत्येवं चिन्तयेत् ।
तद्यथेत्यादिना सोदाहरणानासवान दर्शयति
भा०-तद्यथा-स्पर्शनेन्द्रियप्रसक्तचित्तः सिद्धोऽनेकविद्यावलसम्पन्नोऽ. प्याकाशगोऽष्टाऽङ्गमहानिमित्तपारगो गायः सत्यकिनिधनमाजगाम । तथा प्रभूतयवसोदकप्रमाथावगाहादिगुणसम्पन्नविचारिणश्च मदोत्कटा बलवन्ती हस्तिनो हस्तिबन्धकीषु स्पर्शनेन्द्रियसक्तचित्ता ग्रहणमुपग छन्ति । ततो बन्ध वध-दमन(बाहन)निहननाऽङ्कुशपाणिप्रतादाभिघातादिजनितानि तीव्राणि दुःखान्यनुभवन्ति । नित्यमेवं स्वच्छन्दप्रचारसुखस्य वनवासस्यानुस्मरन्ति । तथा मैथुनसुखप्रसङ्गादाहितगर्भाश्वतरी प्रसवकाले प्रसवितुमशक्नुवती तीव्रदुःखाभिहता अवशा मरणमभ्युपैति । एवं सर्व एव स्पर्शनेन्द्रियप्रसक्ता इहामुत्र च विनिपातमृच्छन्तीति॥
टी-सिद्धविद्यः सोऽनेकेन विद्याबलेन युक्तोऽपि वियद्विचारी अङ्गस्वरलक्षणादि अष्टाङ्गनिमित्तं तस्य पारङ्गतो गार्य इति गोत्राख्या सत्यकिः स्त्रीवासक्तचित्तो निधनंविनाशमुपजगामेति । तथेत्यपरमुदाहरणम् । यवसः-चरणीयविशेषः तस्य प्रमाथो भञ्जनमदेनाभ्यवहारलक्षणः । उदके च स्वेच्छयाऽवगाहः । अवगाहादिगुणसम्पन्नेति । आदिग्रहणात् सिंहादिव्यालरहितत्वम् । एवंविधवनविचारिणो मदेन दुष्टतरा हस्तिनः । हस्तिबन्धकीष्विति गणि(करेणु?)कानां संज्ञा । तास्वनेकप्रकारं चाटुकरणस्पर्शनादिभिः प्रौढयोपित इव मनुजान् प्रतारयन्ति हस्तिमूर्खान् । बन्धः-संयमनं वधः-ताडनं दमनंशिक्षाग्रहणं पश्चाद् (वाहनं) निहननं-अडशाभिघातः प्रतोदः-प्राजनकस्तेनाभिघातः। आदिग्रहणाद तिमारारोपणं, युद्धकाले च शस्त्राभिघातः । तथेति दृष्टान्तान्तरमाह-तथा मैथुनति। मैथुनसुखप्रसङ्गेनाहितः-धृतो गर्भो यस्या अश्वतरी-वेगसरी प्रसवकाले मरणामभ्युपैत्यवशा। एवमित्यादिना दान्तिकमर्थमुपसंहरति । एवमुक्तेन न्यायेन लोकद्वयपि विनाशमृच्छन्ति-प्राप्नुवन्तीति ।
१ ‘मार्गात् ' इति ङ-पाठः । २ 'वन्तोऽपि हस्ति०' इति घ-पाठः ।। घ-पाठः। ४ 'मूर्तान् ' इति ङ-च-पाठः।
३ 'स्वयूथस्य स्वच्छन्द ' इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org