________________
सूत्र ७ ] स्वोपुज्ञभाष्य-टीकालङ्कृतम्
२१७ भा०-किश्चान्यत्-अशक्यप्रतीकारत्वात् । अशक्यप्रतीकारं खल्वपि शरीरस्याशुचित्वम् , उदर्तन-रूक्षण-स्नाना-ऽनुलेपन-धूप-प्रघर्षे वासयुक्ति-माल्यादिभिरप्यस्य न शक्यमशुचित्वमपनेतुम् ।
टी०-किश्चान्यदिति प्रकारान्तरेणाशुचित्वप्रतिपादनम् । अशक्यप्रतीकारत्वादिति । अशक्यः प्रतीकारो यस्याशुचित्वस्य । अशुच्यपनयनप्रकारश्च लोके जलक्षालनादिना प्रसिद्धः। उद्वर्तनकं प्रतीतम् । रूक्षणं रोधकषायादिभिः । स्नानं जलेन । अनुलेपनं चन्दनादिकम् । धूपो विशिष्टसुगन्धिद्रव्यसमवायः। प्रघर्षोऽङ्गघर्षणकम् । वासयुक्तिः पटवासादिकम् । माल्यं मालाह पुष्पम् । आदिग्रहणात् कर्पूरोशीरतुरुष्ककस्तूरिकाग्रहः। एमिरप्यस्य शरीरकस्य विशिष्टद्रव्यैरशुचित्वमपनेतुं न शक्यम् । कुतः ?
भा०-अशुच्यात्मकत्वात् शुच्युपघातकत्वाचेति । तस्मादशचि शरीरमिति । एवं ह्यस्य चिन्तयतः शरीरे निर्वेदो भवतीति । निर्विण्णश्च शरीर(रे जन्म)प्रहाणाय घटत इत्यशुचित्वानुप्रेक्षा ॥६॥
टी-अशुच्यात्मकत्वादिति । अशुचिरात्मा-स्वभावो यस्य तदशुच्यात्मकम् । अशुचिस्वभावस्य पुरीषादेवि अशक्यप्रतीकारम् अशुचित्वापनयनम् । शुच्युपघातकत्वाचाशुचि शरीरम् । शुचीनि द्रव्याणि शाल्योदनदधिक्षीरादीनि, तान्यप्यात्मसम्पर्कादुपहन्ति-अशुचीकरोति । तथा कर्पूर-चन्दन-काश्मीरजादीनि सुगन्धिद्रव्याणि संश्लेषमात्रादेव प्रतीकरोति, अतोऽविष्यमाणं सर्वप्रकारं शरीरमेवाशुचि । परमार्थतो नापरं किञ्चित स्वतो. ऽशुचि समस्ति शरीरकं वा शरीरसम्पृक्तं वा विहायेति । एवं ह्यस्य चिन्तयत इत्यादिना अशुचित्वानुप्रेक्षायाः फलमाह-निर्वेदः--अप्रीतिः अरतिः-उद्वेगः। शरीरके निर्विण्णश्च न शरीरसंस्कारार्थमायतते । जन्मप्रहाणायैव तु घटते इत्यशुचित्वानुप्रेक्षा ॥६॥
आस्रवानुप्रेक्षास्वभावप्रकाशनायाह
भा०-आस्रवान् इहामुत्रापाययुक्तान् महानदीस्रोतोवेगतीक्ष्णान. अकुशलागमकुशल निर्गमद्वारभूतान, इन्द्रियादीन् अवद्यतश्चिन्तयेत् । .
टी०-आसूयते-यैः कर्मादीयते त आस्रवास्ते इन्द्रियादयस्तानास्रवानिह लोके । अमुत्रेति परलोके । अपायो-दोषः पीडा दुःखं तेनापायेन युक्तान् । महानदी-गङ्गादिका
१ 'धातत्वा०' इति ग-पाठः ।
२ 'भवति' इति घ-पाठः।
३ 'दधिपूरदधिः' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org