________________
२१६ तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ९ न्ताशुचिः । ततोऽपि पित्तस्थानप्राप्तो मलतामापन्नोऽशुचिरेव । ततो वाय्वाशयं प्राप्तः समीरणेन विभज्यमानः पृथक् खलः पृथर रस इति द्वयीं परिणतिमापद्यते । तत्र खलात् मूत्र-पुरीष-दूषिका-स्वेद-लालादयो मलाः प्रादुष्ष्यन्ति । रसाच्छोणित-मांस-मेदोऽस्थिमज्जा-शुक्राणि जायन्ते । सर्व चैतत् कफादिशुक्रान्तमशुच्येव, तस्मादाधुत्तरकारणाशुचित्वादशुचि शरीरमिति निगमयति ॥
अशुचित्वे हेत्वन्तरमाह. भा०-किश्चान्यत्-अशुचिभाजनत्वात् अशुचीनां खल्वपि भाजनं शरीरं कर्ण-नासा-ऽक्षि-दन्त-मल-स्वेद-श्लेष्म-पित्त-मूत्र-पुरीषादीनामवस्करभूतं तस्मादशुचीति ॥ किश्चान्यत्-अशुच्युद्भवत्वात् एषामेव कर्णमलादीनामुद्भवः शरीरं तत उद्भवन्तीति । अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् ॥ किश्चान्यतअशुभपरिणामपाकानुबन्धादातवे बिन्दोराधानात् प्रभृति खल्वपि शरीरं कलला-बुंदपेशी-घनव्यूह-सम्पूर्णगर्भ-कौमार-यौवन-स्थविर-भावजनकेनाशुभप. रिणामपाकेनानुबद्धं दुर्गन्धि पूतिस्वभावं दुरन्तं तस्मादशुचि ॥
टी-किश्चान्यत्। अशुचिभाजनत्वादिति । अशुचीनि कर्णमलादीनि तेषामवस्करभूतम् । अवस्करो वास्थानं पाद(पायुः)क्षालनकं तदिव यत् तदवस्करभूतं तस्मादशुचीति । किश्चान्यत्-अशुच्युद्भवत्वादिति हेत्वन्तरम् । एषामेव कणमलादीनामशुचीनामुद्भव आकरः शरीरं यस्मात् तत उद्भवन्ति-उत्पद्यन्ते एते कणेमलादयः, अनन्तरेण हेतुना उत्पन्नानां कर्णमलादीनामाश्रयः शरीरमिति प्रतिपादितम्। अनेन पुनर्हेतुना शरीरादेव कर्णमलादय उत्पद्यन्त इति प्रतिपाद्यते। अथवाऽयं विशेष:-अशुचौ च गर्भे सम्भवतीत्यशुचि शरीरम् । गर्भ:-उदरमध्यम् । चशब्दो वाशब्दार्थे । अशुचौ वा गर्भ पुरीषादिना सम्भवतिउत्पद्यते यस्माच्छरीरं तस्मादशुचीति । किञ्चान्यदित्ययमपरो हेतुरशुचित्वे । अशुभपरिणामपाकानुबन्धादिति । अशुभः परिणामो यस्य पाकस्य तेनानुबन्धित्वात् अनुगतत्वात् । तमेवाशुभपरिणामं पाकं प्रकाशयति (आतेव इत्यादिना) आर्तवम्-ऋतौ (भव) शोणितं तस्मिन् आर्तवे सति । बिन्दोराधानात् प्रभृतीति । बिन्दुः--शुक्रावयवस्तदाधानात्-तत्प्रक्षेपात प्रभृति औदारिक कललादिभावेन परिणमते । अर्बुद-घनव्यूहोऽवयवविभागः । सर्वश्वायमशुभपरिणामः पाकः कललाद्यवयवरूपस्तेनानुबद्धं दुर्गन्धि-अशुभगन्धम् । अत एव पूतिस्वभावं कोथस्वभावम् । दुरन्तमिति । पर्यवसानेऽपि म्यादिपुञ्जो वा गृध्र-सारमेय-वायसादिभक्ष्य वा भस्मान्तमस्थिशकलानि वा । एवमिदं दुष्टा(र?)न्तं शरीरं यतस्तस्मादशुचीति ॥
१' अशुचि परि०' इति ङ-पाठः। २ 'बन्धाद् दुर्गन्धपूति'' इति म-पाठः। ३ ' अशुचिभाजनवदिति -पाठः। ४'वयंस्थानं 'इति ड-पाठः। ५ काथस्व.' इति ग-पाठः । ६ 'कृष्णादि । इतिक-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org