________________
सूत्र ७ ] • स्वोपज्ञभाष्य-टीकालङ्कृतम्
२१५ भा०-अशुचि खल्विदं शरीरमिति चिन्तयेत् । तत् कथमशरीरस्याशुचित्वे शचीति चेत आद्यत्तरकारणाशचित्वात् , अशुचिभाजनत्वात्, ____ हेतुपञ्चकम् ।
_ अशुच्युद्भवत्वात्, अशुभपरिणामपाकानुबन्धात्, अशक्यप्रतीकारत्वाचेति ॥ ___टी-अशुचि खल्विदं शरीरमित्यादि । शुचि-मलरहितं न शुच्यशुचि शरीरकंपाणिपादाद्यवयवसन्निवेशविशेषस्तदशुचीत्येवं चिन्तयेत् ।
ननु च निर्मलशरीराः स्निग्धत्वचः स्त्रियः पुमांसश्च दृश्यन्ते, तत् कथमस्य प्रतिज्ञामात्रेणाशुचित्वं प्रतिपद्येमहीत्याह
भा०-तत्राद्युत्तरकारणाशुचित्वात् तावच्छरीरस्याचं कारणं शुक्र शोणितं च तदुभयमत्यन्ताशुचीति । उत्तरमाहारपरिणामादि ।
टी०-तत्राद्युत्तरकारणाशुचित्वादित्यादि हेतुपञ्चकम् । तत्र-तेषु पञ्चसु हेतुषु आधुत्तरकारणाशुचित्वादित्यस्य व्याख्या । तावच्छब्दः क्रमावद्योतनार्थः। आद्यं कारणंप्रथमं शुक्रं शोणितं च । करोतीति कारणम् , निर्वतयति उत्पादयतीत्यर्थः। येनासा(योना?)वुत्पद्यमानो जीवस्तैजसकार्मणशरीरी प्रथममेव शुक्रशोणिते अभ्यवहरति शरीरीकरोति औदारिकशरीरतया परिणमयति । ततः कललार्बुदपेशीधनपाणिपादाद्यङ्गोपाङ्गशोणितमांसमस्तुलुङ्गास्थिमज्जकेशश्मश्रुनखशिराधमनीरोमकूपादिना परिणमयति । उत्तरकारणं तु रसहरण्या परस्परप्रतिबद्धया जनन्याहृतमाहाररसमभ्यवहरति । तदेव तदुभयमत्यन्ताशुचीति शुक्रशोणितयोरशुचित्वं लोकस्य प्रतीतमिति ख्यापयति अत्यन्ताशुचीति, न जातुचिच्छुचित्वं शुक्रशोणितयोः समस्ति ।
भा०-तद्यथा--कवलाहारो हि ग्रस्तमात्र एव श्लेष्माशयं प्राप्य श्लेष्मणा द्रवीकृतः अत्यन्ताशुचिर्भवतीति । ततः पित्ताशयं प्राप्य पच्यमानः खेलीभूतोशुचिरेव भवति । पको वाय्वाशयं प्राप्य वायुना विभिद्यते पृथक् खलः पृथग् रसः, खलात् मूत्रपुरीषाद्यो मलाः प्रादुर्भवन्ति, रसाच्छोणितं परिणमति, शोणितान्मांसं, मांसान्मेदः, मेदसोस्थीनि, अस्थिभ्यो मजानः, मज्जभ्यां शुक्रमिति । सर्व चैतत् श्लेष्मादिशुक्रान्तमशुचि भवति । तस्मादायुत्तरकारणाशुचित्वादशुचि शरीरमिति ॥
टी-तद्यथा-कवलाहारो हीत्यादिनोत्तरकारणस्याशुचित्वमाचष्टे । कालाहारो हि जनन्या प्रस्तमात्र एव श्लेष्माशयं-कफस्थान प्राप्तः श्लेष्मणा द्रवतामापादितोऽत्य.
१ 'मनुचिन्त' इति ग-पाठः । २ 'अम्लीकृतोऽशुचिः' इति घ-पाठः । ३ — विभज्यते ' इति घ-पाठः । ४'मज्जा मज्जाभ्यां शुक्र' इति घ-पाठः। ५'शुचिर्भवति' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org