________________
२१४
तत्त्वार्थाधिगमसूत्रम् . [ अध्यायः ९ टी-शरीरव्यतिरेकेणेत्यादि । शरीरं पञ्चप्रकारं औदारिकादि तस्माच्छरीरपञ्चकादन्योऽहम् । कुत एतत् ? यस्मादिन्द्रियग्राह्यं शरीरं, अतीन्द्रियोऽहं, न चक्षुरादिना करणेन ग्रहीतुं शक्यः । इन्द्रियग्राह्यं शरीरमित्यव्यापिनी भेदप्रतिपत्तिरित्याह ।
भा०-अनित्यं शरीरं नित्योऽहम्, अज्ञ शरीरं ज्ञोऽहम्, आद्यन्तवच्छरीरं अनाद्यन्तोऽहम्, बहूनि च मे शरीरशतसहस्राणि अतीतानि संसारे परिभ्रमतः स एवायमहमन्यस्तेभ्य इत्यनुचिन्तयेत् । एवं ह्यस्य चिन्तयतः शरीरप्रतिबन्धो न भवतीति । अन्यच्च शरीरान्नित्योऽहमिति श्रेयसे घटत इत्यन्यत्वानुप्रेक्षा ॥५॥
टी-अनित्यं शरीरमित्यादि । पुद्गलात्मकमौदारिकादि शरीरं, पुद्गलाश्च विशरारुत्वाच्छरीरसनिवेशविशेषं विहाय स्कन्धान्तरेण परमाणुरूपेण वा वर्तन्ते, न जातुचिदात्मा असङ्खयेयप्रदेशसनिवेशं परित्यज्य ज्ञानदर्शनरूपं वो वृत्तो वर्तते वर्तिष्यते वा । ततश्च नित्यत्वमात्मनः । ननु परिणामानित्यतया आत्मा अनित्योऽपीष्यते इत्यपरितुष्यन्नाह–अज्ञं शरीरं ज्ञोऽहमिति । न कदाचित् पुद्गला ज्ञानाधुपयोगरूपेण परिणामिनो भवन्ति । आत्मा तु परिणामी। ज्ञानाधुपयोगपरिणामेन अतोऽन्यत्वं, तथा आद्यन्तवच्छरीरं अनाद्यन्तोऽहम् । आदिः-आरम्भकालः अन्तो-विनाशकालः, तो यस्य स्तस्तद् आद्यन्तवत् । आदिरौदारिकवैक्रिया-ऽऽहारकाणां सुज्ञानः । तैजस-कार्मणयोः सत्यप्यनादिसम्बन्धे सन्तत्याऽनादित्वमिष्टं, पर्यायाङ्गीकारेण तु तैजसकार्मणपुद्गलाः परिशटन्ति लगन्ति च । यदाऽऽश्लेषमायान्ति तैजसकार्मणतया तदा आदिः, यदा परिशटन्ति तदाऽन्तः। नैवमात्मनः कदाचिदादिरन्तो वा विद्यते, आरभ्यारम्भकभावाभावात् । ज्ञानरूपेण दर्शनरूपेण वा (दर्शयति) अविच्छिन्नत्वात् तत्स्वरूपत्वाच सर्वदैवानाधन्तोऽहं इतश्चान्यत्वम् । बहूनि च मे शरीरशतसहस्राणीत्यादि। न हि प्राक्तनजन्मशरीराणि इदानीन्तनजन्मशरीराणि भवन्ति । संसारे परिभ्रमतः । अनादौ च संसारे परिभ्रमतो बहून्यतीतानि शरीरकाणि, नहि तेषां अधुनातनशरीरेऽन्वयोऽस्ति स्वल्पोऽपि । अहं पुनः स एव येनोपभुक्तान्यतीतानि शरीरशतसहस्राणीत्यतोऽहमन्यस्तेभ्य इत्यनुचिन्तयेत् । अन्यत्वे च सति विच्छिन्नशरीरममत्वो निःश्रेयसायैव यतते इत्यन्यत्वानुप्रेक्षा ॥
अशुचित्वानुप्रेक्षानिर्धारणायाह
१'चावृत्तो' इति ग-पाठः। ४ 'आरम्भारभ्यकाभावात्' इति
२'न च' इति घ-पाठः। ३'परिणमितोऽतोऽन्यत्वं' इति उ-पाठः । -पाठः । ५'त्वात्सर्व' इतिह-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org