________________
सूत्रं ७१ स्वोपज्ञभाष्य टीकालङ्कृतम्
२१३ यादृशः संसारः, इन्द्वा वधबन्धदंशमशकशीतोष्णादयः त एवारामो यत्र संसारे । आरामो हि नानाजातीयतरुसमूहः। आराम इवारामो द्वन्द्वानां सङ्घातः । कष्टं-कृच्छं दुःखं गहनं स्वभावः-स्वरूपं यस्य संसारस्येत्येवं चिन्तयेत् । ततः संसारभयादुद्विग्नस्य जातारतेः सांसारिकसुखजिहासालक्षणो भवति निर्वेद इत्येषा संसारानुप्रेक्षा ॥
एकत्वभावनास्वरूपभावनायाह
भा०-एक एवाहं, न मे कश्चित् स्वः परो वा विद्यते । एक एवाहं जाये। एक एव म्रिये ॥
टी०-एक एवाहमित्यादि । एक एवाहं न जातुचित् ससहायो जाये म्रिये वाजननं मरणं वाऽनुभवामीति । यमलकयोरपि क्रमेणैव निःसरणम् । यच्च जन्मनि दुःखं मरणे वा तदेक एवा(हम)नुभवामीत्यर्थः। न तस्य मदीयस्याशर्मणोऽनुभवे कश्चित् सहायोऽस्ति । ततश्च सहजन्मानः सहमरणाश्च निगोदजीवा अपि न व्यभिचारयन्त्यमुमर्थमेक एवाह जाये एक एवाहं म्रिये इति ॥
एतदेव भाष्येण दर्शयति... भा०—न मे कश्चित् स्वजनसंज्ञः परजनसंज्ञो वा व्याधि-जरा-मरणादीनि दुःखान्यपहरति प्रत्यंशहारी वा भवति । एक एवाहं स्वकृतकर्मफलमनुभवामीति चिन्तयेत् । एवं ह्यस्य चिन्तयतः स्वजनसंज्ञकेषु स्नेहानुरागप्रतिबन्धो न भवति परसंज्ञकेषु च द्वेषानुबन्धः। ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटत इत्येकत्वानुप्रेक्षा ॥४॥
टी.-न मे कश्चिदित्यादि । मत्तः सकलं दुःखमाक्षिप्यात्मनि निधत्ते इत्येसन, प्रत्यंशो विभागो वण्टनम् । न च सम्भूय स्वजनाः परजना वा मयि दुःखमुत्पन्न विभाजयन्तीत्यर्थः । ततश्चैक एवाहं स्वकृतस्य कर्मणः फलमनुभवामीति चिन्तयेत् । स्नेहानुरागप्रतिबन्ध इति । जनन्यादिष्वकामविषये स्नेहः, भार्यायां कामविषयोऽनुरागः, प्रतिबन्धः-आसक्तिर्न भवति । परसंज्ञकेषु देषानुबन्धः। पर एवायं न कदाचिदात्मीयो भवति किमनेन ममादृतेनेति । ततः स्वजनेषु परजनेषु च निःसङ्गतामुपगतो मोक्षायैव यतेत (घटेत?) इत्येकत्वानुप्रेक्षा ॥ ___ अन्यत्वभावनाविभावनायाह. भा०-शरीरव्यतिरेकेणात्मानमनुचिन्तयेत्-अन्यच्छरीरमन्योऽहम्, ऐन्द्रियकं शरीरम्, अतीन्द्रियोऽहम् ।..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org