________________
सूत्रं ७ ]
स्वोपज्ञभाष्य-टीकालङ्कृतम्
२१९
भा० – तथा जिह्वेन्द्रियप्रसक्ता : मृतहस्तिशरीरस्थस्रोतोवेगोढवाय सवत् हेमन्तघृतकुम्भप्रविष्टमूषिकवत् गोष्ठप्रसक्तहृदवासिकूर्मवत् मांसपेशी लुब्धश्येनवत् बंडिशागतमांसगृद्धमत्स्यवच्चेति ॥ तथा घ्राणेन्द्रिय'प्रसक्ता ओषधिगन्धलुब्धपन्नगवत् पललगन्धानुसारिमूषकव
जिहादिविषयग्रस्ता
नां विडम्बनाः चेति ॥ तथा चक्षुरिन्द्रियप्रसक्ताः स्त्रीदर्शनप्रसङ्गादर्जुन कचोरवत् दीपोलोकनलोलपतङ्गवद् विनिपातमृच्छन्तीति चिन्तयेत् ॥ तथा श्रोत्रन्द्रियप्रसक्तास्तित्तिरि-कपोत- कपिञ्जलवत् गीतसङ्गीतध्वनिलोलमृगवद् विनिपातमृच्छन्तीति चिन्तयेत् । एवं हि चिन्तयन्नास्रवनिरोधाय घटत इत्यास्रवानुप्रेक्षा ॥ ७ ॥
टी० - तथेत्या स्रवान्तरेऽपि दोषदर्शनम् । सामयिकानि च वायसाद्युदाहरणानि । बडिशो - गलः तत्र मांसम् । तथेत्यपरास्रवगत दोषोदघाटनमुदाहरणद्वयेन । तथाऽपरत्रात्रवे दोषोपपादनम् | अर्जुनचोरः श्यामायां निवेशित दृष्टिर्निधनं गत इति सामयिकमेवाख्यानकम् । तथेत्ययमप्यास्त्रवः सदोष इति कथयति । तित्तिरः पञ्जरस्थः तित्तिरीशब्दश्रवणादागतो युयुत्सार्थी पाशेन बध्यते । एवं कपोत- कपिञ्जलादेरपि, गीतमे रुकएव गोटके गायति, सङ्गीतकं तु वंशकांस्यादियुक्तम् । एवमेतानाखवान् दोषबहुलानेव चिन्तयेत् । एवं च परिचिन्तयन्नास्रवनिरोधायैव घटत इत्यात्रवानुप्रेक्षा ॥ ७ ॥
गीतसङ्गीतयो - विशेषः
संवरानुप्रेक्षानिरूपणायाह
भा० – संवराश्च महाव्रतादीन् गुप्त्यादिपरिपालनाद् गुणतश्चिन्तयेत् । सर्वे ह्येते यथोक्तास्रवदोषाः संवृतात्मानो भवन्तीति चिन्तयेत् । एवं यस्य चिन्तयतो मतिः संवरायैव घटत इति संवरानुप्रेक्षा ॥ ८ ॥
टी० - संवराश्च महाव्रतादीनित्यादि । स्रवद्वाराणां पिधानमास्रवदोषपरिवर्जनं संवरः । तांश्व संवरान् प्राणातिपातनिवृत्यादीन् गुप्त्यादिपरिपालनादिति । गुप्त्यादयः परिपालना:-परिपॉलका येषां महाव्रतादीनाम् । आदिग्रहणादुत्तरगुणपरिग्रहः । इतरत्रादिग्रहणात् समितिग्रहणम् । तान् गुतश्चिन्तयेत् । गुणा- उपकारिणस्तान् गुणान् इत्येवं चिन्तयेत् । सर्वे ह्येते इत्यादि गतार्थं भाष्यम् ॥ ८ ॥
निर्जराऽनुप्रेक्षा स्वरूपावधारणमधुना -
निर्जरायाः पर्यायाः
- निर्जरा वेदना विपाक इत्यनर्थान्तरम् ।
Jain Education International
भा०
१' हैमनघृत ' इति पाठः * अर्जुन ' इति च पाठः । ५' पालना ' इति च - पाठः ।
२ ' बडिशामिषगृद्ध ०' इति घ-पाठः ।
३
' लोकलोक ' इति घ-पाठ ।
६ ' गुणवतः' इति ग-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org