________________
सूत्र ६] बोपज्ञभाष्य-टीकालङ्कृतम्
२०७ एवं तपः प्रकीर्णकमभिधाय त्यागाभिधित्सया प्राहभा०-बाह्याभ्यन्तरोपधिशरीरानपानाद्याश्रयो भावदोषपरित्यागस्त्यांगः।
टी-बाह्याभ्यन्तरोपधिशरीरानपानादिराश्रयो यस्य तस्यैवंविधस्य भावदोषस्य परित्यागस्त्यागोऽभिधीयते । न हि निरालम्बनो भावदोषः समस्ति । यथा ह्यशुभं तपसा नादत्ते प्राक्तनं च त्यजत्येवं बाह्योपकरणादित्यागोऽपि संवृणोत्यास्रवद्वाराणि । तत्रोपकरणं बाह्यं रजोहरणपात्रादि स्थविरजिनकल्पयोग्योपधिः दुष्टवाङ्मनसः अभ्यन्तरं क्रोधादिश्चातिदुस्त्यज उपधिः । शरीरं वाऽभ्यन्तरमन्नपानं च बाह्यम् । आदिग्रहणादौपग्रहिक च बहिर्निषद्यादण्डकादि आश्रयभूतं. भावदोषस्य भवति । भावदोषो मूर्छा स्नेहः गाादिः। संयमसाधनं रजोहरणादीत्येवं धारयति, न पुना रागादियुक्तः शोभाद्यर्थम् । एवं विधस्य भावदोषस्य परित्यागः सर्वप्रकारस्त्याग उच्यते ॥
सम्प्रति आकिश्चन्यस्वरूपनिरूपणायाहभा०-शरीरधर्मोपकरणादिषु निर्ममत्वमाकिश्चन्यम् ॥९॥
टी-शरीरेति । उक्तेन न्यायेन भावदोषत्यागं कृत्वा बाह्योपकरणं रजोहरणपात्राधुपभुञ्जानोऽप्यकिञ्चन एव भवति । शरीरमाश्रयमात्रमात्मनो यदा च तत्र त्यागाहमशुचिस्वङ्मांसास्थिपञ्जरं केवलं धर्मसाधनचेष्टायाः संयमभरक्षमायाः साहायके वर्तते । तदिदं शकटाक्षोपाञ्जनवदाहारादिनोपग्राह्यम् । न त्ववयवसनिवेशशोभार्थमिति । निर्ममत्वमाकिवन्यं धर्मोपकरणं रेजोहत्यादि प्रमार्जनादिकार्यप्रसाधनाय व्याप्रियत इति संयमोपकरणम् । अत्रापि निर्ममत्वमाकिश्चन्यमिति ॥
ब्रह्मचर्यस्वरूपनिर्दिधारयिषयाप्राह
भा०-व्रतपरिपालनाय ज्ञानाभिवृद्धये कषायपरिपाकाय च गुरुकुलवासो ब्रह्मचर्यम् ॥
टी-व्रतपरिपालनायेत्यादि । आकिश्चन्ये व्यवस्थितो ब्रह्मचर्य परिपालयेत् । तच्च ब्रह्मचर्य गुरुकुलवासलक्षणम् । गुरुकुलवासो ब्रह्मचर्यमिति। बृहत्त्वादात्मा ब्रह्म [आवृत्तिरात्मनि ब्रह्मचर्यमाख्यातम् ] ब्रह्मणि चरणमात्मारामत्वमरक्तद्विष्टात्मनि व्यवस्थानम् । अब्रह्मणश्च विनिवृत्तिव्रतं मैथुनवर्जप्राधान्येन । तत्परिपालनाय गुरुकुले वस्तव्यम् । यद्यपि मनोज्ञामनोज्ञ
१ 'त्यागधर्मः' इति ग-पाठः। २ 'मनसमभ्यन्तरं' इति ग-पाठः । ३ 'शोभार्थी प्रति' इति च-पाठः ।
४.रजोगस्यादि'इति -पाठः। ५'तस्य प्रतिपा०' इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org