________________
तत्वार्थाधिगमसूत्रम्
[ अध्यायः ९ तथा पानकस्य, दायिका च एलुकस्यान्तः पादमेकं विन्यस्यापरं बहिर्काएकमासिक्या:
वस्थाप्य तां दत्तिं यदि ददाति ततः कल्पते । तथा आदिमध्यावसानस्वरूपम्
गोचरत्रयहीडी पेडा अर्धपेडा गोमूत्रिका पतङ्गवीथिः संबुक्कवृत्ता गत्वा प्रत्यागता चेति षड़विधगोचरभूमिचारी । एवंविधतपश्चारीति यत्र ज्ञायते तत्रैकरात्रं कल्पते वासः। यत्र न ज्ञायते तत्रैकरात्रं वाव्होरात्रद्वयं वा वस्तु कल्पते, न परतः। याचनप्रच्छनाऽनुज्ञापनप्रश्नव्याकरणभाषी आगमनविकटगृहकवृक्षमूलोपाश्रयत्रयपरिभोगकारी पृथिवीकाष्ठयथास्तीर्णसंस्तारकत्रयशायी कश्चित् तदध्यासिते प्रतिश्रये अग्निं लगयेत् ततो दाहभयान निष्कामेत् कण्टकादिकं पादलग्नमक्षितो वा कणुकांदिनों निहरेत् । जलस्थलादिषु यत्रास्तमेति तपनस्ततः स्थानादेकमपि पदं न प्रयाति । विगतजीवेनापि पानकेन हस्तपादादिप्रक्षालनं न करोति । सन्मुखमापततो दुष्टाश्वहस्त्यादीत्या पदमप्येकं पश्चान्नापसपेत् । एवमादिभिर्नियमविशेषर्विचित्रा एषा मासिकी प्रतिमेति । द्विमासप्रतिमामारूढस्यान्धसो द्वे दत्ती पानकस्य च, शेषचयों पूर्ववत् । एवमुत्तरास्वपि यावन्तो मासास्तावत्य एव दत्तयोऽपि यावत् सप्तमासिक्यां सप्त दत्तयः । शेषं प्रथमप्रतिमावद्विधानम् । प्रथमसप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्त
मपानकं ग्रामादेहिरुत्तानपार्श्वशायिनो निषण्णस्य वा कल्पते स्थातुं - दिव्यमानुषतैर्यग्योनानुपसर्गान् . सम्यक्सहमानस्येत्यन्यत् पूर्ववत् ।
द्वितीयां सप्तरात्रिकी प्रतिमामारूढस्य तदेव चतुर्थभक्तमपानकं च स्थान त्वस्य दण्डायतं लगडशायिता उत्कुटु कासनं वा। तृतीयामपि सप्तरात्रिकी प्रतिमामारूढस्य चतुर्थभक्तमपानकं च, स्थानं पुनरस्य गोदोहिका वीरासनं आम्रकुब्जिता चेति । अहोरात्रिकी प्रतिपत्रस्य प्रतिमां षष्ठभक्तमपानकं बहिर्दामादेश्चतुरङ्गलान्तरौ चरणौ विधाय लम्बितबाहो कायोत्सर्गावस्थानमेकं, शेषं पूर्ववत् । एकरात्रिकी प्रतिमां कुर्वतोऽष्टमभक्तमपानकं ग्रामादेबहिरीपत् प्राग्भारगतेन कायेनैकपुद्गलनिरुद्धदृष्टिरनिमिषनयनो यथाप्रणिहितगात्रः सुगुप्तेन्द्रियग्रामः कायोत्सर्गावस्थायी दिव्यमानुषतैरश्चानुपसर्गान् सम्यक तितिक्षते यस्तस्य भवतीति सप्तचतुर्दशैकविंशतिरात्रिक्यस्तिस्र इति । नेदं पारमर्षप्रवचनानुसारि भाष्यं, किं तर्हि ?
. प्रमत्तगीतमेतत् । वाचको हि पूर्ववित् कथमेवंविधमार्षविसंवादि निर्वभाष्यपाठपरामर्शः धनीयात ? सूत्रानवबोधादुपजातान्तिना केनापि रचितमेतद् वचनकम्दोच्चा सत्तराईदिया तइया सत्तराइंदिया। द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रिकीति सूत्रनिर्भेदः । वे सप्तराने त्रीणीति सप्तरात्राणीति । सूत्रनिर्भेदं कृत्वा पठितमज्ञेन सप्तचतुर्दशैकविंशतिरात्रिक्यस्तित्र इति ॥
सप्तरात्रिक्या:
स्वरूपम्
'नातिकामेत्' इति ग-पाठः। २ 'कादिना' इति ङ-पाठः। ३ 'दण्डयतः' इति ङ-पाठः। ४ 'उस्कुटकस्थांनं' इति -पाठः। ५'हिकापुनीरा' इति ङ-पाठः। ६ 'निरूढदृष्टि' इति च-पाठः। ७ 'मर्षवचना' इति उ-पाठः। ८'ब्रूयात्' इति ङ-पाठः। ९ 'द्विसप्त'. इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org