________________
सूत्र ६]
स्वोपज्ञभाग्य - टीकालङ्कृतम्
भेद्रोत्तररचना । द्वादशचतुर्दशषोडशाष्टादशविंशतिभक्तानि, अष्टादशविंशविद्वादशचतुर्दशषोडशभक्तानि चतुर्दशषोडशाष्टादशविंशति द्वादशभक्तानि विंशतिद्वादशचतुर्दशषोडशाष्टादशभक्तानि षोडशाष्टादशविंशतिद्वादशचतुर्दशभक्तानि दिनानि पञ्चत्रिंशद्भद्रोतरतपसि ।
तथाऽपरं तपः आचाम्लवर्धमानम् | अलवणारनालौदनलक्षणमाचाम्लं तद् वर्धमानं यत्र तपसि तदाचाम्लवर्धमानं तस्य प्ररूपणा - प्राक् तावदाचाम्लं ततचतुर्थभक्तं पुनर्दे आचाम्ले पुनञ्चतुर्थभक्तं पुनस्त्रीण्याचाम्लानि पुनश्चतुर्थभक्तं चत्वार्याचाम्लानि पुनश्वतुर्थभक्तं पञ्चा चाम्लानि पुनश्चतुर्थभक्तं एवमेकैकमाचाम्लं वर्धयता चतुर्थभक्तं च विदधता तावद् वर्धयितव्यमाचाम्लं यावदाचाम्लशतं पूर्ण पर्यन्ते च चतुर्थभक्तं कालपरिमाणमस्य चतुर्दश वर्षाणि मासत्रयं विंशतिर्दिवसाचेति । सर्वतोभद्रमित्येवमादीत्यादिग्रहणादनेकप्रकारं तपोऽस्ति प्रकीर्णकमिति ज्ञापयतीति पारमर्ष एव प्रसिद्धं प्रवचने ॥
अथवाऽऽदिशब्दसङ्गृहीता द्वादश भिक्षुप्रतिमास्तदर्शनार्थमाह
भा०- तथा द्वादश भिक्षुप्रतिमाः - मासिक्याद्याः आ सप्तमासिक्यः सप्त, संतचतुर्दशैकविंशतिरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रिकी चेति ॥ ७ ॥
टी० - तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या इति । मासिकी आदिर्यासां ता मासिक्याद्याः । द्वादशेति इयत्ता निरूपणाय संख्या । भिक्षुरुद्मोत्पादनैषणादिशुद्धभिक्षाशी । प्रतिमा प्रतिज्ञा । मासः प्रयोजनमस्या इति मासिकी । मासेन परिसमाप्तिमायातीत्यर्थः । आ सप्तमासिक्याः सप्तेति विभागं दर्शयति, द्वित्रिचतुः पञ्चषट्सप्तमासाख्याः । एवमेताः सप्त तथाऽपरास्तिस्रः प्रथमा सप्तरात्रिकी द्वितीया सप्तरात्रिकी तृतीया सप्तरात्रकी चेति । एवमेता दश । अपरे द्वे अहोरात्रिकी एकरात्रिकी चेति । एवं द्वादश । तत्र मासिकीं प्रतिमामारूढः साधुर्भोजनस्यैकां देत्तिमाते ।
२०५
१ भद्रोत्तरम्
५ ६ ७ ८ ९
८ ९ ५ ६ ७
६ ७ ८९ ५
९ ५ ६ ७ ८
७
८
९ ५ ६
Jain Education International
प्रवचनसारोद्धारे तु भद्रोत्तरं यथा
५ ६ ७ ८ ९
७८ ९ ५ ६ ९ ५ ६ ७ ८ ६ ७ ८ ९ ५ ८ ९ ५ ६ ७
२ 'तदेव' इति ङ-पाठः । ३ ' सप्तरात्रिक्याः तिस्रः' इति घ-पाठः । ४ ' रात्रिकी रात्रिकी ' इति घ-पाठः । ५ ' दत्तिकामा (?) ' इति ङ-पाठः ।
For Private & Personal Use Only
www.jainelibrary.org