________________
२०८ · तत्त्वार्थाधिगमसूत्रम् .
[अध्यायः १ विषयरागविरागविमुक्तिब्रह्मचर्य, तथापि प्रधानत्वेन विवक्षा मैथुनत्तेवरेव । तत्परिपालनार्थ च भगवद्भिर्नवगुप्तय उपदिष्टाः-वसति-कथा-निषद्ये-न्द्रिय-कुड्यान्तर-पूर्वक्रीडितप्रणीताहाराऽतिमात्र भोजनविभूषणाख्याः । ज्ञानसंवर्धनाथं च गुरुकुलवासः । यथोक्तमा
"नाणस्स होइ भागी थिरयरओ दंसणे चरित्ते य ।
धना आवकहाए गुरुकुलवासं न मुंचंति ॥ १॥" कषायाः क्रोधादयस्तेषां परिपाकः-परिणतिरुपशमः क्षयो वा तदर्थं च गुरुकुलवासोऽभ्युपेयः । गुरुरहितस्य हि परिणामवैचित्र्याद् विकथादिदोषात् असज्जनसम्पर्कात असक्रियासङ्गात् अनुस्रोतोगामित्वदोषात् सद्य एव मोक्षमार्गाद् भ्रंशः स्यात् । तस्मादाप्राणितात् गुरुकुलवासः श्रेयः। गुरुकुलवासेन वा स्वतन्त्रीकृतस्य ज्ञानदर्शनचरणवतभावनागुप्त्यादिपरिवृद्धिः। अत एव च साधोसिङ्गृहीतत्वमाचार्योपाध्यायाभ्याम्। निर्ग्रन्थ्यास्तु प्रवर्तिनी सगृहीतत्वं च । तदेव च पर्यायशब्दैराख्यातमादराधानार्थम् ॥
. भा०-अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देश(शाव?)स्थायित्वआचार्याणां मित्यर्थं च पञ्चाचार्याः प्रोक्ताः-प्रव्राजकः, दिगाचार्यः, श्रुतोद्देष्टा, पञ्चविधत्वम् श्रुतसमुद्देष्टा, आम्नायार्थवाचक इति ॥
टी०-अस्वातन्त्र्यं गुर्वधीनत्वं गुरुनिर्देशावस्थायित्वमिति । आचार्यग्रहणाच पश्चाचार्याः प्रोक्ताः-ख्याप्याः प्रव्राजक:-सामायिकवतादेरारोपयिता १, दिगाचार्य:
सचित्ताचित्तमिश्रवस्त्वनुज्ञायी २, श्रुतोद्देष्टा-श्रुतम्-आगममुद्दिशति यः प्रथमतः ३, एचक्षुद्दिष्टगुवादेरपाये तदेव श्रुतं समुद्दिशत्यनुजानीते वा यः स्थिरपरिचितकारयित्त्वेन सम्यग् धारणानुप्रवचनेन च स श्रुतसमुद्देष्टा ।, समुद्देष्टानुज्ञयोरेककालत्वात् समुद्देशसहीतमनुज्ञानम् ४, आम्नाय-आगमस्तस्योत्सर्गापवादलक्षणोऽर्थस्तं वक्तीत्याम्नायार्थवाचका, पारमर्षप्रवचनार्थकथनेनानुग्राहकोऽक्षनिषद्यानुज्ञायी पञ्चम आचार्यः ५॥
___ भा०-तस्य ब्रह्मचर्यस्येमे विशेषगुणा भवन्ति । अब्रमविरतेव्रतस्य भावना यथोक्ता इष्टस्पर्श-रेस-गन्ध-विभूषानभिनन्दित्वं चेति॥
टी-तस्य ब्रह्मचर्यस्येत्यादि । पुनरपि तद्रक्षणदृढीकरणार्थ ब्रह्मचर्यस्य विशेषगुणाः ख्याप्यन्ते-इमे इति प्रत्यक्षीक्रियन्ते। विशेषेण अतिशयेनोपकारित्वाद् विशेपगुणा अब्रह्मविरतेब्रह्मव्रतस्य । यथोक्ता भावनाः प्राक् पञ्च दोषवर्जनेन निगूढंख्यङ्गा१ छाया
ज्ञानस्य भवति भागी थिरतरतो दर्शने चरित्रे च।
धन्या यावत्कथं गुरुकुलवासं न मुञ्चन्ति ॥ . ३.गुवाद्यपाये' इति जुर-पाठः। ३'रतिव्रतभावना' इति घ-पाठः। ४ 'रस-रूप-गन्ध-शब्द-विभूषा इति घ-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org