SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ सूत्र ६ ] . स्वोपज्ञभाष्य-टीकालङ्कृतम् भा०-सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः भेद्रोत्तरमाचाम्लवर्धमानं सर्वतोभद्रमित्येवमादि ॥ टी०-सप्तसप्तमिका अष्टाष्टमिका नवनवमिका दशदशमिका चेति। तत्र सप्तसप्तमिका प्रथमायामहोरात्राणामेकोनपश्चाशद् दिवसा इत्यर्थः । अष्टाष्टकाः। अष्टाष्टमिकायामहोरात्राणां चतुःषष्टिदिनानीति । तथा नवनवमिकायामेकाशीतिरहोरात्राणि । देशदशमिकायां दिवसशतम् । सर्वत्र प्रथमा अहोरात्रसङ्ख्यासु एकैकभिक्षाशित्वम् । सर्वत्रेति चतसृष्वपि प्रतिमासु प्रथमे सप्तमके प्रथमेऽष्टके प्रथमे नवके प्रथमे च दशके प्रतिदिनमेकैकभिक्षाशित्वं द्वितीये सप्तकेऽष्टके नवके दशके च भिक्षाद्वयाशित्वम्, एवं शेषेष्वपि सप्तकादिष्वेककभिक्षावृद्धिः कार्या यावत् सप्तमे सप्तके सप्तभिक्षा अष्टमेऽष्टौ भिक्षा नवमे नव मिक्षा दशमे दशभिक्षाशित्वमिति ॥ तथाऽन्यत् तपः सर्वतोभद्रमिति द्विविधं तत्-भुकसर्वतोभद्रं महासर्वतोभद्रं चेति । तत्र प्रथमस्य प्रस्तारविधिर्भण्यते-पञ्च गृहाणि कृत्वा तिर्यगूर्व च। ततो रचना तपसः कार्या। चतुर्थषष्ठाष्टमदशमद्वादशानि प्रथमपङ्क्तौ, द्वितीयस्यां च दशमद्वादशचतुर्थषष्ठाष्टमानि, तृतीयायां षष्ठाष्टमदशमद्वादशचतुर्थीनि, द्वादशचतुर्थषष्ठाष्टमदशमानि चतुर्यो, पञ्चम्यामष्टमदशमद्वादशचतुर्थषष्ठानि । पारणादिवसाः पञ्चविंशतिः। कालो मासत्रयं दिनानि दश । एष एव चतुर्गुणो वर्षमेकं मासो दश दिनानीति ॥ १'सर्वतोभद्रं भद्रोत्तर.' इति ग-पाठः । २ सप्तसप्तमिकायाः स्वरूपं अन्तकृद्दशासु यथा "पढमे सत्तए एककं भोयणस्स दत्तिं पडिगाहेइ, एकेक पाणयस्स एवं जाव सत्तमे सत्त दत्तीउ भोयणस्स, सत्त पाणयस्स..." प्रथमे सप्तके एकैकां भोजनस्य दत्तिं प्रतिगृह्णाति, एकैकां पानकस्य, एवं यावत् सप्तमे सप्त दत्तयो भोजनस्य, सप्त पानकस्य....] व्यवहारभाष्ये त्वेवम्“ अहवा एकेक्कियं दत्ति, जा सत्तेकेकस्स सत्तए । आएसो अस्थि एसो वि............॥" [अथवा एकैको दत्तिं यावत् सप्त एकैकस्मिन् सप्तके । आदेशोऽस्ति एषोऽपि............] ३ 'दशमिकाया' इति च-पाठः। ४ क्षुल्लकसर्वतोभद्रस्य प्रथमो विकल्पः | ५१२३४ |३|४५ १ ।२। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy