SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २०० तत्वार्थाधिगमसूत्रम् . [ अध्यायः ९ तथा कनकरत्नमुक्तावल्यास्तिस्र इति कनकावली-रत्नावली-मुक्तावली च। तत्र केनकावली तावदाख्यायते -प्राक् तावच्चतुर्थभक्तं ततः षष्ठं ततोऽष्टमं ततोऽपि षष्ठान्यष्टौ । पुन ___ श्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिकनकावलीस्वरूपम् षइविंशत्यष्टाविंशतित्रिंशद्वात्रिंशचतुस्त्रिंशद्भक्तानि । ततः पुनश्चतुस्त्रिंशत् संख्यानि षष्ठानि । ततः परमेतदेवाद्यम चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोमं विरचनीयं यावत पर्यन्ते चतुर्थभक्तमिति। अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यघिकानि अष्टाशीतिः पारणदिवसाः, तत्प्रक्षेपाच चत्वारि दिनशतानि द्विसप्तत्यधिकानि भवन्ति । पिण्डस्तु वर्षमेकं त्रयो मासाः द्वाविंशतिर्दिवसा इति ॥ अत्र च प्रथमकनकावल्यां सर्वकामगुणिकेन पारणाविधिः । द्वितीयकनकावल्यां पारणके सर्वनिर्विकृतिकं पारयितव्यम् । तृतीयस्यां पारणाविधिरलेपकृताकनकावल्याः हारेण । चतुर्थ्यां पारणाविधिराचाम्लेन परिमितभिक्षेणेति । एवमासा * चतसृणामपि कालः पञ्च वर्षाणि मासद्वयमष्टाविंशतिर्दिवसा इति ।। पारणाविधिः १प्रवचनसारोद्धारे तु प्रथमं रत्नावलीतपो व्याख्यातम् , तदनन्तरं कनकावलीतपः। उक्तं च तहकायां (४३७तमे पत्राङ्के)-" कनकमयमणिकनिष्पन्नो भूषणविशेषः कनकावली, तदाकार...यत् तपस्तत् कनकावली. स्युच्यते, एतच कनकावलीतपो रत्नावलीतपःक्रमेणैव क्रियते" २ कनकावलीस्थापना यथा कनकावलीत तपोदिनानि ३८४ पारणादिनानि ८८ |२/२/२/२/२ |२|२|२|२|२|२२ | २] २] २/२/२/२/२ २२ २/२२] . . . ३'रलोपहारेण' इति ङ-पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy