________________
सूत्र ६ ]
•
स्वोपज्ञभाष्य - टीकालङ्कृतम्
सम्प्रति तपः प्रस्तावायात मुच्यते
भा०- तपो द्विविधम् । तत् परस्ताद् (अ० ९, सू० १९-२० ) वक्ष्यते । प्रकीर्णकं चेदमनेकविधम् ।
टी० - तपो द्विविधमित्यादि । तपतीति तपः । कर्तर्यसुन् वा । संयमात्मनः शेषाशयविशोधनार्थं बाह्याभ्यन्तरतपनं तपः । शरीरेन्द्रियतापनात् कर्मनिर्दहनाच्च तपः । अपर वपोलक्षणे आह- -" विशेषेण कायमनस्ताप विशेषात् तपः " । द्विविधमिति बाह्यमामतान्तरम् भ्यन्तरं वा (च) । बाह्यमिति बाह्यद्रव्यापेक्षत्वात् तीर्थिकगृहस्थादिकार्यत्वाच्च । आभ्यन्तरं त्वन्यतीर्थिकानभ्यस्तत्वादन्तः करणव्यापारस्य प्राधान्याद् बाह्यद्रव्यानपेक्षत्वाच्च । अन्ये त्वाहुः – “परप्रत्यक्षं बाह्यम् । स्वप्रत्यक्षमाभ्यन्तरम्" । अथवा आतापनादिः कायक्लेशस्तपो वहिर्लक्ष्यत इति बाह्यम् । अनशनादिभ्यो वा तेभ्यो ऽपि च बहिस्तरां वर्तत इति तदुपलक्षितं बाह्यम् । नैवं प्रायश्चित्तादि । तत् परस्ताद्-उपरिष्टाद् वक्ष्यते-अनशनावमौदार्यादि प्रायश्चित्तविनयादि च यथाक्रमम् । इह त्वशून्यार्थं पुरुषविशेषचरितं प्रकीर्णकं कालाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति
भा०- - तद्यथा - यववज्रमध्ये चन्द्रप्रतिमे दे । कनकरत्नमुक्तावल्यस्तिस्रः । सिंहविक्रीडिते द्वे ॥
टी० - यववज्रमध्ये चन्द्रप्रतिमे द्वे इति । मध्यशब्दः प्रत्येकमभिसम्बध्यते -येवमध्या वज्रमध्या च । चन्द्रप्रतिमे इति चन्द्रतुल्ये । यथा चन्द्रस्य कलावृद्धिः प्रतिदिनमेवं भिक्षाका - लवृद्धिः । यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति । तत्र यवमध्या चन्द्रप्रतिमा शुक्ल प्रतिपदारम्भादमावास्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिः (तथा भिक्षाकवलवृद्धि:), कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः । ततः कृष्णप्रतिपद्यपि पञ्चदशैव । एवमेकैककवलहान्या यावदमावास्यायामेकः कवल इत्येषा यवमध्या ।
वज्रमध्या कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पञ्चदशकवलानभ्यवहरति । तत्राप्येकैककबलहानिर्यावदमावास्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति । द्वितीयादिष्वेकैकवृद्धिर्यावत् पौर्णमास्यां पञ्चदशेत्येषा वज्रमध्या ।
'१' वक्ष्यति' इति ग-पाठः । २ ' तप्यतीति' इति ग-पाठः । ३ ' तापनं तपः' इति ङ-पाठः । ४-५ ' यवस्येव मध्ये स्थूलस्य पर्यन्तभागयोस्तु तनुकस्य मध्यं यस्याः सा यवमध्या, वज्रस्येव मध्ये तनुकस्य पर्यन्तयोस्तु स्थूलस्य मध्यं यस्याः सा वज्रमध्या' इति श्रीनेमिचन्द्रसूरिवरविरचितस्य प्रवचनसारोद्धारस्य श्रीसिद्धसेन सूरिकृतटीकायां (४४० तमे पत्राङ्के ) ।
६ यवमयां चन्द्रप्रतिमामुद्दिश्य प्रोक्तम्
Jain Education International
-१९९
" एकैकां वर्धयेद् भिक्षां, शुक्ले कृष्णे च हापयेत् । भुञ्जीत नामावास्याया - मेष चान्द्रायणो विधिः ॥"
For Private & Personal Use Only
www.jainelibrary.org