________________
सूत्रं ६] म्वोपज्ञमाष्य टीकालङ्कृतम्
१९५ वाऽऽर्जवम् । भावदोषवर्जनमित्यर्थः । भावदोषयुक्तो हि उपधिनिकृतिसंप्रयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्मादार्जवं धर्म इति ॥ ३॥
टी०-भावविशुद्धिरिति । भावाः-कायवामानसानि तेषां विशुद्धिः-अवक्रतशाध्यविरहितत्वम् , मनसोऽपि परिणामः कायवाचोरुपचर्यते तद्वृत्तानुवृत्तेः । मायावी तु सर्वाभिसन्धानपरतया सर्वाभिशङ्कनीयः केपटपटप्रच्छादितकायादिक्रियः सुहृदेऽपि द्रुह्यति ।
तमेव योगानामविपर्यासं दर्शयति ऋजुभाव इत्यादिना। उपधिनिकृत्योर्विशेष:उपधिः छम छादनं स्वाभिसन्धेः निकारो निकृतिः परबुद्धिपराभवद्वारेण स्वाभिसन्धेः साफल्यापादनम् । अविसंवादनमविनाशनं अहिंसनमित्यनर्थान्तरम् । विनाशनं-परिणामान्तरापादनं विसंवादनमुच्यते । न विसंवादनमविसंवादनम्, परिणामान्तरानापादनमिति । तस्मादेवंविधमाजेवं धर्मः॥
अधुना लोभप्रतिपक्षं शौचलक्षणमाविर्भावयन्नाह - भा०–अलोभः शौचलक्षणम् । शुचिभावः शुचिकर्म वा शौचम् ॥...
टी०-अलोभ इति । अलोभः शौचलक्षणम् । लोभस्तु भावतः परमार्थतोऽभिष्वङ्गश्चेतनाचेतनमिश्रवस्तुविषयः । लोभदोषाच क्रोधमानमायाहिंसाऽनृतस्तेयाब्रह्मपरिग्रहार्जनमलजालेनोपचीयमान आत्मा भवत्यशुचिः। तत्रालोमो-लोभाभावो न कचिन्मम. त्वम् । अलोभस्य हि लोभदोषविनिर्मुक्तत्वानिर्भयत्वम् । ततः स्वपरहिताभिप्रवृत्तिरित्येतदेव शौचलक्षणं मुख्यमात्मनः ।
एतदेव स्पष्टयति
भा०-भावविशुद्धिनिष्कल्मषता। धर्मसाधनमात्रास्वपि अनभिष्वङ्गा इत्यर्थः । अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुभफलमकुशलं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते । तस्माच्छौचं धर्म इति ॥४॥
टी०-भावविशुद्धिर्ममत्वाभावो निःसङ्गता च, अपरद्रोहेणात्मार्थानुष्ठान, निष्कलम फ्ता-निर्मलता भाव(धर्म?)साधनमात्राः-रजोहरण-मुखवस्त्रिका-चोलपट्टक-पात्रादिलक्षणाः तास्वप्यनभिष्वङ्गो विगतमूछे इत्यर्थः। यस्मादशुचिर्भावकल्मषसंयुक्तः, भावकल्मषं च लोभकषायस्तस्मात् तत्त्यागः । शौचं धर्म इति, शरीरमहाव्रणप्रक्षालनादि द्रव्यशौचं, तच प्रासुकैषणीयेन जलादिना निर्लेपनिर्गन्धितापादनमागमोक्तेन विधिना कार्यमिति ॥
१ कपटप्रच्छादित ' इति ङ-पाठः । २ “हिताहिताभि' इति -पाठः । ३. 'महावर्ण' इति च-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org