________________
१९४ तस्वार्थाधिगमसूत्रम् .
[ अध्यायः १ श्रुतेनापि परिहार्यः श्रुतमद इति। लम्भनं लाभ:-प्राप्तिर्विशिष्टफलस्य सत्कारसन्मानादेः नृपतिसन्मित्र त्यस्वजनेभ्यो विज्ञान-तपो-ऽभिजन-शौर्याद्याधिक्यादहं लेभेयं, अपरः प्रयत्नवानपि न लभत इति स्वलाभेन माद्यति । तथा सकलजनवल्लभतां च प्राप्तोऽहं, अयमपरो न कस्मैचिद् रोचते, वचनमप्यस्य नादरयन्तीति सर्वोऽप्ययं लाभमदः । स चैवं निगृहीतव्यो लाभान्तरायकर्मोदयादलाभो लाभान्तरायकर्मक्षयोपशमाच सत्कारादिलाभः, संसारे परिभ्रमतो जीवस्य कादाचित्को न तु शाश्वतः, कर्मायत्तत्वात् , संसागनुबन्ध्येवेति लाभमदत्यागः श्रेयस्करः। वाल्लभ्यकप्राप्तिरपि कर्मोदयजनितैव, संसारिणां च सुलभेति वाल्लभ्यकलाभमदः परिवर्जनीय इति । वीर्य-पराक्रमः शक्तिरुत्साहः सामर्थ्यमतिशयवती चेष्टेति पर्यायाः। वीर्यान्तरायक्षयोपशमात् प्रादुरस्ति वीये-बलविशेषस्तेन बीर्येण माद्यतीति वीयेमदः, तस्य प्रतिक्षेपः संसारानुबन्धित्वचिन्तनात्, संसारानुबन्धी वीर्यमदः कषायरूपत्वात्, वीर्यस्य चाशाश्वतत्वात् । तथाहि-बलिनोऽपि पुरुषाः क्षणेन निर्बलतामुपयन्तो दृश्यन्ते, निवलाश्च बलवन्तः संस्कारवशादाशु जायन्ते, तथा व्याधि-जरा-मृत्युषद्भूतबलेषु चक्रवर्तिहरिसीरिणोऽपि सीदन्ति ससुरासुराः, किमुतान्ये पृथग्जना इति ? वीर्यमदाद् व्युपरमः श्रेयान् । इतिशब्दो मदस्थानानामियत्तामावेदयति । मौलान्येतावन्ति, सूक्ष्मभेदास्ते -भूयांस इति ॥
सम्प्रति सामान्येन सर्वमदस्थानेषु दोषानाविर्भावयन्नपसंहरति
भा०-एभिर्जात्यादिभिरष्टाभिर्मदस्थानमत्तः परात्मनिन्दाप्रशंसाभिरतः तीव्राहकारोपहतमतिरिहामुत्र च अशुभफलमकुशलं कर्मोपचिनोति । उपदिश्यमानमपिच श्रेयो न प्रतिपद्यते । तस्मादेषां मदस्थानानां निग्रहो मार्दवं धर्म इति ॥२॥
टी-एमिर्जात्यादिमिरित्यादि। उक्तलक्षणैर्जात्यादिमिर्मत्तः-अहंमानी परनिन्दायामात्मप्रशंसायां च सक्तस्तीवेण-अतिशयवताऽहङ्कारेणोपहतबुद्धिर्मलीमसधिषण इहपरलोकानुभवनीयं कर्मोपचिनोति-बध्नाति अकुशलं-पापमशुभफलम् , अकुशलमपि बद्धं कदाचित् कुशलफलतया परिणमत इत्यशुभफलग्रहणम् । सम्यग्दर्शनादि मुक्तिसाधनं श्रेयः । तचाख्यायमानमपि न प्रतिपद्यते-न श्रद्धत्ते । यत एतदेवं तस्मादेषां मदस्थानानां मार्दवं निग्राहक, तन्निग्रहाच्च धर्म इति ॥
सम्प्रति मायाप्रतिपक्षमार्जवं लक्षयतिभा०-भावविशुद्धिरविसंघादनं चार्जवलक्षणम् । ऋजुभावः ऋजुकर्म
१ 'प्रभृत्य' इति ङ-पाठः। २'लभेयमपर' इति घ-पाठः। ३ 'बन्धिचिन्तनात् ' इति ग-पाठः । ४ 'विबलता' इति-घ-पाठः। ५ 'कुशलतया' इति उ-च-पाठः । ६ 'श्रद्दधते' इति -पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org