________________
तार्थाधिगमसूत्रम्
अवसरप्राप्तं पञ्चमं धर्माङ्गं निर्दिदिक्षुराह -
भा० - सत्यर्थे भवं वचः सत्यं, सद्भयो वा हितं सत्यम्, तदननृतम्, अपरुषमपिशुनमन सभ्यमचपलमनाविलमविरलमसम्भ्रान्तं मधुरमभिजातमसन्दिग्धं स्फुटमौदार्ययुक्तमग्राम्यपदार्थाभिव्याहारमसी भरमरागद्वेषयुक्तम् ॥
१९६
7
टी० – सन्- विद्यमानोऽर्थोऽनेकधर्मा तस्मिन् सत्यर्थे भवं, दिगादित्वात् यत्, यथाsaस्थितार्थप्रतिपत्तिकारि सत्यम् ॥ नन्वेवं सति लुब्धकाय मृगाख्यानमपि सत्यं स्यात्, किं ( एवं १ ) तर्हि सच्छन्दः प्रशंसार्थः । प्रशस्तोऽर्थः सन् न पापहेतुः तस्मिन् सति भवं सत्यं, पक्षान्तरसमाश्रयणं वा, सद्भयो वा हितं सत्यमिति, सन्तो जीवा एव गृह्यन्ते, हितशब्दोपादानात् । न ह्यजीवसम्बन्धि किञ्चिद्धितमस्ति, अतोऽप्रशस्तार्थव्यावृत्तिः । सामान्येन वा जीवाजीवेभ्यो हितम् । अनेकपर्याय कलापभाजोऽर्थाः । तेषां यथाऽवस्थितविवक्षितपर्यायप्रतिपादनं सत्यं एतदेव तेभ्यो हितं यद् यथार्थप्रतिपादन मिति, तस्येदानीं सत्यवचनस्य विशेषगुणानाचष्टे - तदनृतमिति । अनृतं भूतनिद्ययः अभूतोद्भावनं विपरीतकटुकसावद्यादिवचनं, नानृतम् । ननु च सत्यपर्याय एवायम् । सत्यमेतत्, तथापि वक्ष्यमाणोत्तरगुणप्राप्त्यर्थं पुनर्वचनम् । परुषं रूक्षं स्नेहरहितं (निष्ठुरं) परपीडाकारि । न परुषम परुषम् । तत्राविनयेषु माध्यस्थ्यभावना, विनयेषु तु सौम्या वागपरुषम्, पिशुनं - प्रीतिविच्छेदकारि द्वयोर्बहूनां वा सत्यासत्यदोपाख्यानात् । न पिशुनमपिशुनम् । सभार्ह - सभ्यं, न सभाईमसभ्यं - सभासु विगर्हितं विदग्धसभासु गुह्यप्रकटनामोद्घाटनवचनवत् । तस्य प्रतिषेधो नासभ्यमन सभ्यम् । चपलःअनालोचितभाषी, तद्वचनमपि चपलं, तच्च दोषाक्षेपि भवति । आविलं- कलुषं, कषायवशवर्तिनो वचनं न आविलमनाविलं, प्रसन्नवचनमितियावत् । विरलं - विश्रम्यभाषणम् । सविच्छेदत्वाच्च श्रोतुरनादरवाक्यव्याहरणाच वणवैरस्यं करोति । न विरलमविरलमनुसन्ततमिति । सभ्रान्तं' तु त्रासकरं, न सम्भ्रान्तमसम्भ्रान्तं अतित्वरितं वा सम्भ्रान्तमनुं च्छ्रसन् भाषते च यत् अव्यक्तवर्णपदलोपत्वादप्रत्यायकं वा श्रुतिविरसाक्षरमप्ररोचकमेव स्यात् । मधुरमिति प्रसन्न - पदघटितं श्रुतिसुखं सुखावबोधार्थं च अनभिमानं - विनयसहितं अभिजातं सप्रश्रयं सविनयं सन्दिग्धम् - आकाङ्क्षा विनिवर्तने अक्षमं तद्विपरीतम सन्दिग्धमाकाङ्क्षाविच्छेदकारि, निराकाङ्क्षमिति । अस्फुटम् अनिश्चितार्थत्वादालून विशीर्णप्रायं, (वि) निश्चितार्थं तु स्फुटम् । अनौदार्यम् - अत्यौद्धत्य प्रदीपकं, तद्विपरीतमौदार्यम् । अप्रधानार्थ अनौदार्य उदारार्थप्रतिबद्धत्वादुदारं तद्भाव औदार्य तद्युक्तमौदार्ययुक्तम् । विद्वज्जनमनोऽनुरञ्जनेऽसमर्थं ग्राम्यं, न
१ ' व्याप्त्यर्थं ' इति च-पाठः । ४ ' अनभिमतमविनय' इति च पाठः ।
Jain Education International
२ 'न्तमुत्रास' इति च-पाठः । ५ ' मविनिश्चिता' इति पाठः ।
[ अध्यायः ९
For Private & Personal Use Only
३ 'अनुच्छ्रसं' इति ङ-पाठः ।
www.jainelibrary.org