________________
१९२
तत्वार्थाधिगमसूत्रम् - .
[ अध्यायः ९
डी० - क्षमागुणांश्चेत्यादि । क्षमाया गुणाः ज्ञानादिवृद्धिहेतवोऽनायासादयः । तचानुचिन्त्य क्षमामेव विदधीत | आयासो - दुःखहेतुश्चेष्टाविशेषः प्रहरणसहायान्वेषणं संरम्भावेशारुणविलोचन स्वेदेद्रवप्रवाह प्रहारवेदनादिकः । तद्विपरीतोऽनायासः - स्वस्थता । आदिग्रहणात् तत्प्रत्यय कर्मप्रायश्चित्ताभावः शुभध्यानाध्यवसायिता परसमाधानोत्पादनं स्तिमितप्रसन्नान्तरात्मत्वमित्यादयः । इत्थमनुस्मरतो गुणाः सम्पद्यन्ते क्षममाणस्य, क्षमितव्यमिति क्षमाधर्मः । तथा मार्दवधर्मः मृदुः - अस्तब्धस्तद्भावस्तत्कर्म वा मार्दवम् । तल्लक्षणप्रदर्श
नायाह
भा० - नीचैर्वृत्यनुत्सेको मार्दवलक्षणम्। मृदुभावो मृदुकर्म वां मार्दवं, मदनिग्रहो मानविघातश्चेत्यर्थः । तत्र मानस्येमान्यष्टौ स्थानानि भवन्ति ॥
टी० - नीचैर्वृत्यनुत्सेकाविति । नीचैर्वृत्तिः - अभ्युत्थानासनदानाञ्जलिप्रग्रहयथाईविनयकरणरूपा नीचैर्वर्तनम् । उत्सेकश्चित्तपरिणामो गर्वरूपस्तद्विपर्ययोऽनुत्सेकः । संसारस्वभावं भावयतोऽसमञ्जस विशिष्टजातिकुलादिसम्पदः कदाचिदेवासाद्यन्ते कदा चिद्धीनास्ततो न गर्वपरिणाम मास्कन्दतीत्येतदेवाह - मदनिग्रह इत्यादि । माद्यत्यनेनेति मदः जात्यादिमदस्तस्य ( निग्रहः उदयनिरोधः कदाचिदुदितस्य वा वैफल्यापादनं मानो-मूलप्रकृतिः यद्विजृम्भणादेते प्रादुष्पन्ति जात्यादिमदास्तस्य ) च निर्घातो मूलोत्कर्तनमित्यर्थः । तद्वाते चावश्यम्भावी जात्यादिमदविनाशः । तन्निरूपणार्थमाह-तत्र मानस्येत्यादि । तत्रेति वाक्योपन्यासार्थः । स्थानानि भेदाः । इमानीति प्रत्यक्षीकरोति । परस्यानुभवमुत्पादयतिभा० – तद्यथा – जातिः १ कुलं २ रूपम् ३ ऐश्वर्यं ४ विज्ञानं ५ श्रुतं ६ लाभः ७ वीर्यम् ८ इति ॥
अष्टविधता मानस्य
. टी० - तद्यथेत्यादिनोदाहरति । जात्यादीनि वीर्यान्तान्यष्टौ स्थानानि । तत्र जातिः पित्रन्वयः प्रख्याततमवंशता जातिर्जन्मांत्मलाभः पञ्चेन्द्रियादिलक्षणा वा तया गर्व - मुद्वहति विशिष्टजातिरहमिति । विदितकर्मपरिणामस्तु निरुणद्धि जातिमदं, स्वकृतकर्मफलानु - भाजो जीवा नानाजातीरुच्चावचाः प्रपद्यन्ते इति न श्रेयान् जातिमदः । मात्रन्वयः कुलं उग्रभोजादि वा । तेनापि मदो न युक्तएव जात्यादिभावनावदिति । रूपं शरीरावयवानां सन्निवेशविशेषो लावण्ययुक्तस्तेनापि कश्चिन्माद्यति, तत्प्रतिषेधेस्त्वाद्युत्तरकारणालोचनाद् भवति । तत्राद्यं कारणं मातुरोजः पितुः शुक्रम्, उत्तरकारणं जननीग्रस्तान्नपान रसाभ्यवहारो रसहरण्येत्येवमामृशतो न प्रतिभाति रूपमदः । त्वग्-मांसा ऽस्थि-पुरीष-पूयाद्यशुभप्रायत्वात् । ऐश्वर्यमदो
―――――――
१ ' द्रव्य ' इति च पाठः । २ ' च' इति घ-पाठः । ३ ' जन्मात्मा जातः पञ्चेन्द्रिया०' इति च पाठः । ४ ' भोगादि' इति च पाठः । ५ ' षेधमुत्तर ० ' इति ङ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org