________________
सूत्र ६ ]
. • स्वोपज्ञभष्य-टीकालङ्कृतम् भा०-बालस्वभावचिन्तनाच्च परोक्षप्रत्यक्षाकोशताडनमारणधर्मभ्रंशानामुत्तरोत्तररक्षार्थम् । बाल इति मूढमाह । परोक्षमाक्रोशति बाले क्षमितव्यमेव । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां परोक्षमाक्रोशति न प्रत्यक्षमिति लाभ एव मन्तव्यः । प्रत्यक्षमप्याक्रोशति बाले क्षमितव्यम् । विद्यत एवैतद् बालेषु । दिष्टया च मां प्रत्यक्षमांकाशति, न ताडयति, एतदप्यस्ति बालेष्विति लाभ एव मन्तव्यः । ताडयत्यपि बाले क्षमितव्यम् । एवंस्वभावा हि बाला भवन्ति । दिष्टया च मां ताडयति, न प्राणैर्वियोजयतीति । एतदपि विद्यते बालेष्विति। प्राणैर्वियोजयत्यपि बाले क्षमितव्यम् । दिष्टया च मां प्राणैर्वियोजयति, न धमोदू भ्रंशयतीति क्षमितव्यम् । एतदपि विद्यते बालेष्विति लाभ एव मन्तव्यः । किञ्चान्यत
टी-बालस्वभावेत्यादि । बालशब्दोऽवैधेयवचनः, न वयोऽवस्थावाची । तथैव चाह भाष्यकृत् । बालः मूढो निर्विवेक इत्यर्थः । तस्य चैष एव स्वभावो मूढत्वात् यत्किञ्चनभाषित्वं तत्स्वभावालोचनमन्वेषणं, अतस्तचिन्तनाच्च क्षमितव्यमेव । चशब्दः समुच्चयार्थः। उत्तरोत्तररक्षार्थमिति परोक्षाकोशात् प्रत्यक्षाकोशनमुत्तरं, प्रत्यक्षाक्रोशनात ताडनं, ताडनान्मारणं, मारणाद् धर्मभ्रंशनं, परोक्षाक्रोशेन क्षमायां प्रत्यक्षाकोशनं रक्षितं भवति । एवमुत्तरत्रापि, अस्ति हि कियत्यपि मन्दाक्षमाक्रोष्टुर्मयि ततः परोक्षमाक्रोशति, न प्रत्यक्षम् । दिष्टयेति तृतीयैकवचनप्रतिरूपको निपातः प्रसादवचनः प्रशंसावचनो वा । अयमेव च प्रसादो मम-इदमेव वा साधु यन्मां परोक्षमाक्रोशति, न प्रत्यक्षमित्येष एव लाभः । लौकिकः खलु अयमाभाणक:-अयमेव (मे) लाभ इति, एवं सर्वत्र व्याख्या। किश्चान्यदालम्बनमाश्रित्य क्षमा कार्या तदभिधीयते
भा०-स्वकृतकर्मफलाभ्यागमाच्च । स्वकृतकर्मफलाभ्यागमोऽयं मम, निमित त्तमानं पर इति क्षमितव्यम् । किश्चान्यत्
ही-स्वकृतफलाभ्यागमाचेति । जन्मान्तरोपात्तस्य कर्मणः स्वकृतस्यायं विपाको मम यदाक्रोशति ताडयति वा परः, स तु निमित्तमात्रं कर्मोदयस्य । यस्माद् द्रव्यक्षेत्रकालभवभावापेक्षा कर्मणामुदयो भगवद्भिराख्यातः । स्वकृतं च कर्मानुभवितव्यमपश्यन्तया निकाचितं, तपसा वा क्षपणीयमिति । किश्चान्यदालम्बनं क्षन्तुमनसा विधांतव्यमित्याह
भा०–क्षमागुणांचानायासादीननुस्मृत्य क्षमितव्यमेवेति क्षमाधर्मः ॥१॥
१ 'विधेयं' इति च-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org