________________
१९०
तत्त्वार्थाधिगमसूत्रम् .. [अध्यायः ९ टी-तत् कथं क्षमितव्यमिति चेत् । क्षमितव्यमिति भावे कृत्यः । क्षमाऽपि भाव एव । अतः सामान्यमात्रमाश्रित्य तच्छब्दप्रयोगः। वाक्यार्थस्तु-सा-क्षमा कथं-केन प्रकारेण कर्तव्या ? । एवं मन्यते दुर्भञ्जः क्रोधवेगो मदाकुलस्येव करिणः । चेच्छब्दः शङ्कायाः सूचकः । एवमाशङ्किते आशङ्काव्युदासचिकीर्षया आह-उच्यत इति । क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् । भावः सद्भावोऽस्तित्वं तच्चिन्तनात् तदुपयोगात् उभयथाऽपि क्रोधो न घटत इति । येन निमित्तेन परप्रयुक्तेनायं मम कोप उत्पद्यते तन्निमिर्स मयि किं सत्यमेवास्ति उताभ्याख्याति परः १, यदि सत्यमस्त्येतन्निमित्तं कि कोपेन? कृतं खलु मयेदं, नाणीयोऽपि परस्यात्राऽऽगः सद्भूतमर्थ प्रकाशयतः, स्वकृतं हि दुश्चरितं तपतीत्येवं चिन्तयेत् । एतदेवाह-भावचिन्तनात् । तावद विद्यन्ते मय्येते दोषाः किमत्रासौ मिथ्याब्रवीतीति क्षमितव्यं, तथाऽभावचिन्तनादपि क्षमितव्यमित्यादि, ये दोषाः परेणोपक्षिप्यन्ते मयि नेते विद्यन्ते । अभाव एव, परस्त्वज्ञानादेवमभिधत्ते । अज्ञात्वैव दोषानुपक्षिपतीत्यर्थः । एवं च निरपराधमात्मानमवेत्य क्षन्तव्यमेव ॥ किश्चान्यदालम्बन सहिष्णुत्वे इत्याह
भा०-परैः प्रयुक्तस्य क्रोधनिमित्तस्यात्मनि भावचिन्तनादभावचिन्तनांच क्षमितव्यम् । भावचिन्तनात् तावद् विद्यन्ते मयि एते दोषाः किमत्रासौ मिथ्या ब्रवीतीति क्षमितव्यम् । अभावचिन्तनादपि क्षमितव्यम्, नैते विद्यन्ते मयि दोषा यानज्ञानादसौ ब्रवीतीति क्षमितव्यम् । किश्चान्यत् ॥
टी-गतार्थमेवेदं भाष्यम् । क्षमाकरणे अन्यान्या- भा०-क्रोधदोषचिन्तनाच क्षमितव्यम् । क्रुद्धस्य हि विद्वेषा• लम्बनानि सादनस्मृतिभ्रंशत्रतलोपादयो दोषा भवन्तीति । किश्चान्यत्॥
टी०-क्रोधदोषचिन्तनाचेत्यादि । क्रुद्धः कषायपरिणतो विद्वेषी कर्म बध्नाति, परं वा निहन्ति व्यापादयति वा । अतः प्राणातिपातनिवृत्तिव्रतलोपः स्यात् , गुरूनासादयेद्अधिक्षिपेत् , अतो ज्ञानादिनिर्वाणसाधनपरिहाणिरवश्यंभाविनी । ऋद्धो वा भ्रष्टस्मृतिको मुंषाऽपि भाषेत, विस्मृतप्रव्रज्याप्रतिपत्तिः परेणादत्तमप्याददीत, द्वेषात् परपाखण्डिनीषु ब्रह्मव्रतभेगमप्यासेवेत। तथा प्रद्विष्टः सहायबुद्धया गृहस्थेष्वविरतेषु मूर्छामपि कुर्यात् । आदिग्रहणाद् उत्तरगुणभङ्गमप्याचरेत् कारट्टक(करटुक')भक्तालामे मासक्षपकवत् ॥ किश्वान्यदालम्बनं क्षान्तावित्याह
३ 'दपि नैते मवि' इति ग-पाठः ।
१ 'अज्ञाच्चैव' इति ग-च-पाठः। २ 'नाद् वा' इति घ-पाठः। ४'भवन्तीति' इति घ-पाठः। ५ 'भगना 'इति ग-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org