________________
सूत्रं ६]
स्वोपज्ञभाष्य-टीकालङ्कृतम् "न्यासादानसमित्या व्युत्सर्गे चापि वर्णिता समितिः। सूत्रोक्तेन (च) विधिना व्युत्सृजतोऽर्थ प्रतिष्ठाप्यम् ॥१॥" एवं साधोर्नित्यं यतमानस्याप्रमत्तयोगस्य ।
मिथ्यात्वाविरतिप्रत्ययं निरुद्धं भवति कर्म ॥२॥" ॥५॥ अत्राह-उक्तं समितिगुप्तीनां संवरहेतुत्वम् । अधुना को धर्मः संवरस्य कारणम् ? इति वक्तव्यम् । साध्वगारिधर्मभेदाहितसन्देहस्य प्रश्नः। उच्यते-सत्यप्यविशेषाभिधाने न पुण्यकर्म धर्मः, किं तर्हि १, संवरापादनसामर्थ्यनिमित्तं यो धर्मः स उच्यते।
व सूत्रम्-उत्तमः क्षमा-मार्दवा-ऽऽर्जव-शौच-सत्य-संयम-' दशविधता तपस्त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि धर्मः ॥ ९-६ ॥
टी-उत्तमग्रहणं अगारिधर्मव्यवच्छेदार्थम् । उत्तमो धर्मः प्रकर्षयोगात् । क्षमादयो हि उत्तमविशेषणविशिष्टास्तादृशाश्थागारिणो न सन्ति । यतः सर्वावस्थां अनगाराः क्षमन्ते, सकलमदस्थाननिग्राहिणः शाठयरहिताः सन्तोषामृततृप्ताः सत्यवादिनः संयमिनः तपस्विनो यथावद् दातारः कनकादिकिञ्चनरहिताः सर्वप्रकारं ब्रह्म बिभ्रतीति॥न त्वेवंजातुचिद् गृहिणां क्षमादयः प्रकर्षभाजो भवन्ति । क्षमादयः कृतद्वन्द्वाः प्रथमाबहुवचननिर्दिष्टाः समुदिता एवोत्तमो धर्मः । एष च क्षमादिसमुदयः संवरं धारयति करोति यतस्ततो धर्मः। संवरार्थ चात्मना धार्यत इति धर्मः ।।
एतावन्ति धर्माङ्गानि तनिष्पादितश्च धर्म इति दर्शयतिभा०—इत्येष दशविधोऽनगारधर्म उत्तमगुणप्रकर्षयुक्तो भवति ॥
टी-एवमेष दशप्रकारो यतिधर्मः। उत्तमा गुणा मूलोत्तराख्यास्तेषां प्रकर्ष:पराकाष्ठा तयुक्तोऽनगाराणां धर्मो भवति ॥ क्षमायाः पर्यायाः ।
... भा०-तत्र क्षमा तितिक्षा सहिष्णुत्वं क्रोधनिग्रह इत्यन
र्थान्तरम् ॥ - टी०-तत्र क्षमेत्यादिना विवृणोति । उत्तमत्वं क्षमेति क्षमणं-सहनं परिणाम आत्मनः शक्तिमतः । अशक्तस्य वा प्रतीकारानुष्ठाने तां पर्यायशब्दैराचष्टे । तितिक्षा शान्तिः। सहिष्णुत्वं सहनशीलत्वम् । क्रोधनिग्रहः क्रोधस्योदयनिरोधः, उदितस्य वा विवेकवलेन निष्फलताऽऽपादनम् । एवमेतेऽनन्तरवाचिनः शब्दाः क्षमामेवाभिदधति ।
भाष्यकारस्तु स्वयमेवाशक्याह
भा०-तत् कथं क्षमितव्यमिति चेदुच्यते-क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात् ॥
१' दृशागारिणि ' इति ग-पाठः। .
- Jain Education International
For Private & Personal Use Only
www.jainelibrary.org