SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ १८८ तत्त्वार्थाधिगमसूत्रम् [अध्यायः ९ टी०-अन्नपानेत्यादि । अन्नं-अशन-खाद्य-स्वाद्यभेदम् । पानं आरनालतन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धम् । तथा रजोहरणं समुखवसनम् । पात्रद्वयम् । चोलपट्टकादि चीवरम् । आदिग्रहणाचतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यो जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः । धर्मसाधनानामिति । श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च । न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम् । एवमाहारोपकरणविषयामेषणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः शय्या । साऽप्युद्गमादिदोषरहितैव परिभोग्या । चशब्दः समुचितौ । तत्र षोडश आधाकर्मादय उद्गमदोषाः । उत्पादनादोषाः षोडशैव धान्यादयः । दशैषणादोषाः शङ्कितादयः । एतद्दोषपरिहारेणानपानादिग्रहणमेपणासमितिः । " उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः। संयोजनाच्च पिण्ड शोधयतामेषणासमितिः ॥१॥" आदाननिक्षेपसमितिस्वरूपविवक्षयाह भा०-रजोहरणपात्रचीवरादीनां पीठफलकादीनां चावश्यकाएं निरीक्ष्य प्रमृज्य चादाननिक्षेपौ आदाननिक्षेपणासमितिः ॥ टी०- रजोहरणेत्यादि । रजोहरणपात्रचीवरादीनामिति चतुर्दशविधोपधिग्रहणं द्वादशविधोपधिपरिग्रहः, पञ्चविंशतिविधोपधिग्रहः, पीठफलकादीनामिति वा शेषौपग्रहिकोपकरणसङ्ग्रहणमावश्यकार्थमित्यवश्यन्तया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीमयोरपि कचिदनूपविषये जलकणिकाकुलायां भूमावेवं द्विविधमप्युपधिं स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोहत्या आदाननिक्षेपौ कर्तव्याविन्यादाननिक्षेपणासमितिः। आह च "न्यासाधिकरणदोषान् परिहत्य दयापरस्य निक्षिपतः। न्यासे समितिरथादाने च तथैवाददानस्य ॥१॥" उत्सर्गसमितिस्वरूपकथनायाह भा०-स्थण्डिले स्थावरजङ्गमजन्तुवर्जिते निरीक्ष्य प्रमृज्य च मूत्रपुरीषादीनामुत्सर्ग उत्सर्गसमितिरिति ॥५॥ टी०-स्थण्डिल इत्यादि । स्थानदानात् स्थण्डिलमुज्झितव्यवस्तुयोग्यो भूप्रदेशः। कीदृक् पुनस्तदवकाशं ददातीत्याह-स्थावरजङ्गमजन्तुवर्जितम् । तत्र स्थावराः संचित्ता मिश्राश्च पृथिव्यादयः पञ्च । द्वीन्द्रियादयो जङ्गमाः। तद्वर्जिते निरीक्ष्य चक्षुषोपयुज्य प्रमृज्य च रजोहृत्या वस्त्रपाखेलमलभक्तपानमूत्रपुरीषादीनामुत्सर्ग-उज्झनमुत्सर्गसमितिः। इतिशब्दः परिसमाप्तिवचनः । आह च १ 'ग्रहणं' इति छ-पाठः । २ 'परिग्रहः' इति छ-पाठः। ३ 'असचित्ता' इति च-पाठः । ४ 'लेखमालभक्त' इति ग-च-पाठः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy