________________
. • स्वोपज्ञभाष्य-टीकालङ्कृतम्
"1
" जो य सच्चा अवसव्वा, सच्चामोसा य जा मुसा । जाय बुद्धेहिं नाइण्णा, न तं भासिज्ज पण्णवं ॥ १ ॥ - दशवैकालिके ( अ० ७, उ०२, सू० २ )
सम्यगेपणा - गवेषणमागम विधिना पिण्डादीनाम् । सम्यगादान निक्षेपौ प्रत्युपेक्षाप्रमार्जन पूर्वकौ । सम्यगुत्सर्गः स्थण्डिले व्यपगतप्राणिके । इतिशब्दः स्वरूपप्रतिपादनार्थः । एवंस्वरूपाः पञ्चैव समितयः । तदेव स्वरूपं प्रपञ्चयति - तो त्यादि । तत्र - तासु समितिवीर्यासमितिरित्थंरूपा आवश्यकीयैवेति अवश्यकार्यमवश्यं कर्तव्यं यदागमचोदितं प्रयोजनं विहारादिभूगमनं तदेव भूयः स्पष्टयति-संयमार्थमिति । संयमः सप्तदशभेदः । तदेव चावश्यकमवश्यंतया कर्तव्यम् । सर्वत इति सर्वत्र युगप्रमिते भूप्रदेशे, पादाग्रादारभ्य यावद् युगमात्रं तावन्निरीक्षणेत्यर्थः । युक्त आयुक्तस्तस्यैवं चेष्टमानस्य शनैः शनैः - मन्द गतिभेदमकुर्वतोऽन्यासञ्चरणयोराचरत ईर्यासमितिः । आह च
सूत्र ५]
सम्प्रति भाषासमिति निरूपणायाह
भा०- हितमितासन्दिग्धानवद्यार्थनियत भाषणं भाषासमितिः ॥
" उपयोगोद्योतालम्बनमार्गविशुद्धिभिर्यतेश्वरतः । सूत्रोदितेन विधिना भवतीर्यासमितिरनवद्या ॥ १ ॥ "
टी० - हितमितेत्यादि । आत्मने परस्मै हितमायत्यामुपकारकं मुखवसनाच्छादितास्यता, नातिबहु प्रयोजनमात्रसाधकं मितं, असन्दिग्धं सूक्तम् अर्थवर्णप्रतिपत्तौ वा न सन्देहकारि निरवद्यार्थमनुपघातकं षण्णां जीवकायानां एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः । आह च
" त्यैतानृतादिदोषं सत्यमसत्यानृतं च निरवद्यम् । सूत्रानुयायि वदतो भाषासमितिर्भवति साधोः ॥ १ ॥
एषणासमितिस्वरूपावधारणायाह
भा० – अन्नपानरजोहरणपात्रचीवरादीनां धर्मसाधनानामाश्रयस्य चोगमोत्पादनेषणादोषवर्जन मेषणासमितिः ॥
१ छाया---
Jain Education International
या च सत्याऽवक्तव्या सत्यामृषा च या मृषा । या च बुद्धैरनाचरिता नेमां भाषेत प्रज्ञावान् ॥
२ 'रूपाश्रयस्य काये ० ' इति च पाठः । ३ ' आवश्यकायैवेत्या ' इति ग-पाठः ५' युगप्रतीते भूप्रदेशे ' इति ग-च- पाठः । ६' त्यक्त्वा ' इति च पाठः । ७
८
For Private & Personal Use Only
।
४' विदितं ' इति ङ-पाठः ।
नवीचि ' इति च पाठः ।
૭
www.jainelibrary.org