SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थाधिगमसूत्रम् - [अध्यायः ९ " तद्गुणपरिशुद्धधर्थ भिक्षोर्गुप्तीर्जगाद तिस्रोऽर्हन् । चेष्टितुकामस्य पुनः समितीः प्राजिज्ञपत् पञ्च ॥१॥" इति ॥ पश्चविधत्वं समितीनाम् सूत्रम्-र्या-भाषै-षणा-ऽऽदाननिक्षेपोत्सर्गाःसमितयः९.५ जा टी-अनन्तरसूत्रात् सम्यग्ग्रहणमनुवर्तते, तत् प्रत्येकमभिसम्बन्धनीयं समितिग्रहणं च । ईरणमिर्या-गतिपरिणामः । सम्यगागमानुसारिणी गतिः ईर्यासमितिः । समितिरिति तान्त्रिकी संज्ञा पञ्चसु चेष्टासु । अथवा नानुवर्तते सम्यग्ग्रहणम् । समितिरिति समुपसर्गः प्रशंसाथैः । प्रशस्ता-इति चेष्टा सर्ववित्प्रवचनानुसारेण प्राशस्त्यार्था । एवं भाषणं भाषा तद्विषया चेष्टा (भाषा)समितिः । एषणमेषो-गवेषणं तं करोतीति णिच् तत्र स्त्रीलिङ्गे भावे युच् एषणा, यथागममाहारादेरन्वेषणमेषणासमितिः। आदान-ग्रहणं, निक्षेपो-न्यासः स्थापनं तयोः समितिः-प्रावचनेन विधिना अनुगता आदाननिक्षेपसमितिः । उत्सर्जनमुत्सर्गः । उत्सर्जनमाहरोपधिशय्योचारादेर्भगवद्वचनापेक्षमुत्सर्गसमितिः । ईदियः कृतद्वन्द्वाः समितिशब्दसमानाधिकरणा इति । अमुमेवाथै भाष्येण स्फुटयति भा०-सम्यगीर्या सम्यग्भाषा सम्यगेषणा सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति पञ्च समितयः । तत्रावश्यकायैव संयमार्थं सर्वतो युगमात्रनिरीक्षणायुक्तस्य शनैन्यस्तपदा गतिरीर्यासमितिः॥ टी-सम्यगीर्येत्यादिना, सम्यग्-आगमपूर्विका ई-गमनमात्मपरवाधापरिहारेण। यथोक्तं (दशवैकालिके अ० ५, उ० १, सू० ३-४) "पुरओ जुगमायाए, पेहमाणो महिं चरे। वर्जितो बीयहरियाई, पाणे य दगमट्टियं ॥१॥" ओवायं विसमं खा', विज्जलं परिवजए। संकमेण न गच्छिज्जा, विजमाणे परक्कमे ॥२॥" सम्यग्भाषाऽप्यागमानुवर्तिनी १ प्रतिष्ठा' इति ग-पाठः। २ छाया पुरतो युगमात्रया प्रेक्षमाणो महीं चरेत् । वर्जयन् बीजहरितानि प्राणितश्चोदकं मृत्तिकाम् ॥ १ ॥ भवमातं विषमं स्थाणुं विजल (सकर्दम) परिवर्जयेत् । संक्रमेण (अस्थिरेण) न गच्छेत् विद्यमाने पराक्रमे (स्थिरे) ॥ २ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy