________________
सूत्रं ४]
स्वोपभाष्य-टीकालङ्कृतम् सन्निवेशितदृष्टेरप्रमत्तस्य स्थावराणि जङ्गमानि च भूतानि परिवर्जयतोऽत्वरया पदन्यासमाचरतः प्रशस्तम् । एवमेतेषु गमनादिविषयेषु कायकृतचेष्टाया:-कायव्यापारस्य नियमोव्यवस्था निग्रहः-एवं कर्तव्यम्, एवं न कर्तव्यमिति । उक्तं च
"कायक्रियानिवृत्तिः कायोत्सर्गे शरीरगुप्तिः स्यात । ।
दोषेभ्यो वा हिंसादिभ्यो विरतिस्तयोर्गुप्तिः॥१॥" अत्र च यद्यपि मनोव्यापारसंसृष्टः कायव्यापारः तथापि कायचेष्टायाः साक्षात्कायेनैव निष्पादितत्वाद् बहिरुपलक्ष्यमाणत्वाच्च प्राधान्येन विवक्षा ॥
वाग्गुप्तिविषयप्रदर्शनायाह. भा०-याचन-पृच्छन-प्रश्नव्याकरणेषु वानियमो मौनमेव वा वाग्गुप्तिः॥
टी०-याचनेत्यादि । याचनं-प्रार्थनं अन्यतो गृहस्थादेराहारोपधिशय्यानां, तच्च मुखवसनाच्छादितवक्त्रभागस्य प्रवचन विहितवाक्यशुद्धयनुसारिणो भाषमाणस्य वाग्गुप्तिर्भवति । तथा पृच्छनमाचरतोऽध्वगमनवैद्यसन्देहविच्छेदादिविषयमागमविधिभाजो वाग्गुप्तिः । तथा धर्ममाचक्ष्वेति पृष्टः श्राद्धेन केनचित् प्रकल्पग्रन्थाभिहितनीत्या व्याकुर्यात् सम्यगुपयुक्तः, अन्यद् वा सावद्यमनवा वा पृष्टः समाधाय लोकागमाविरोधेनाचक्षीत, एवंविधः पृच्छनादिविषयो वाग्नियमो वाग्गुप्तिः, मौनमभाषणमेव वा वाचोगुप्तिरिति । आह च--
"अनृतादिनिवृत्तिा, मौनं वा भवति वाग्गुप्तिः।"
. मनोगुप्तिस्वरूपाख्यानायाह
भा०-सावद्यसङ्कल्पनिरोधः कुशलसङ्कल्पः कुशलाकुशलसङ्कल्पनिरोध एव वा मनोगुप्तिरिति ॥४॥
टी०-सावयेत्यादि । अवयं-गर्हितं-पापं सहावद्येन सावद्यः सकल्पा-चिन्तनं आलोचनं आतेरौद्रध्यायित्वं चलचित्ततया वा यदवद्यवञ्चिन्तयति, तस्य निरोधः-अकरणमा प्रवृत्तिमनोगुप्तिः। तथा च कुशलसकल्पानुष्ठानं सरागसंयमादिलक्षणं येन धर्मोऽनुबध्यते यावांश्चाध्यवसाय: कर्मोच्छेदाय यतते सोऽपि सर्वे: कुशलसङ्कल्पो मनोगुप्तिः। अथवा न कुशले सरागसंयमादौ प्रवृत्ति प्यकुशले संसारहेतौ,योगनिरोधावस्थायामभावाद् एवं मनसो गुप्तिः । तत्काले च ध्यानसम्भवात् सकलकर्मक्षयार्थ एवात्मनः परिणामो भवतीति ॥४॥
एवं कायादिनिरोधात् तन्निमित्तकर्मानास्रवणे सति संवरसिद्धिरुक्ता । सम्प्रति चेष्टावतोऽपि संवरसिद्धयर्थमिमाः पश्च समितयोऽभिधीयन्ते । आह च
१ वाग्गुप्तिः' इति ग-पाठः । २ 'प्रवचनविदित' इति च-पाठः ।
२४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org