SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ १८४ तत्वार्थाधिगमसूत्रम् ( अध्यायः ९ ___टी०-सम्यगित्यादि । सम्यगित्यस्य शब्दार्थमाचष्टे-विधानत इति, सभेदं विज्ञाय योगं, तत्र काययोगस्यौदारिक-वैक्रिया-ऽऽहारक-तैजस-कार्मणभेदाः सम्भविनः, वाग्योगस्य सत्यामृषादयः, मनसः सावद्यसङ्कल्पादयः । ज्ञात्वेत्यागमतो यथावदवबुध्य, अभ्युपेत्य सम्यग्दर्शनपूर्वकमिति प्रतिपद्य च भावतः-एवमेते योगाः परिणताः कर्मबन्धाय, एवं च कर्मनिर्जरायै । सम्यग्दर्शनपूर्वकमित्यभ्युपगमक्रियाविशेषणम् । प्रशम-संवेग-निर्वेदा-ऽस्तिक्या-ऽनुकम्पाभिव्यक्तिलक्षणं सम्यग्दर्शनं तत् पूर्वं यस्याभ्युपगमस्येति । त्रिविधस्य योगस्येति मूलभेदाख्यानम्, उत्तरभेदानां मूलानतिलचित्वात् परिग्रहः निग्रहः स्ववशे व्यवस्थापन, स्वातन्त्र्यप्रतिषेधेन मुक्तिमार्गनुकूलः परिणामो गुप्तिः, संरक्षणं भयानकात् कर्मबन्धशत्रोः। त्रैविध्यप्रतिपादनायाहसो प्रकार भा०-कायगुप्तिः, वाग्गुप्तिः, मनोगुप्तिरिति। तत्र शयना-ऽऽसनाकायगुप्तेलक्षणं च ऽऽदाननिक्षेप-स्थान-चक्रमणेषु कायचेष्टानियमः कायगुप्तिः ॥ टी-कायगुप्तिर्वाग्गुप्तिमनोगुप्तिरिति । कायस्य गुप्तिः-संरक्षणं उन्मार्गगतेरागमतः । तथा च संरक्षितः कायो नात्मानमुपहन्ति, एवं वाङमनोगुप्त्योरपि व्याख्या। इतिशब्दो. ऽवधारणार्थः । त्रिविध एव मूलभेदतो योगः । तत्र-तेषु योगेषु निगृहीतव्येषु काययोगनिग्रह एव तावदुच्यते-शयनमागमोक्तो निद्रामोक्षकालः। स च रात्रावेव, न दिवाऽन्यत्र ग्लानादेः। तत्रापि क्षणदायाः प्रथमयामेऽतिक्रान्ते गुरुमापृच्छय प्रमाणयुक्तायां वसतौ, एकस्य साधोहस्तत्रयप्रमिते भूप्रदेशे सभाजनस्य च यत्रावस्थानं सकलावकाशपूरणं च सा प्रमाणयुक्ता, तत्र प्रमृज्य स्वावकाशं प्रत्यवेक्ष्य संहत्यास्तीय च संस्तरणपट्टकद्वयमूवेमधश्च कायं प्रमृज्य सपादं मुखवस्त्रिका-रजोहृतिभ्याम् अनुज्ञापितसंस्तारकाव - स्थानः कृतसामायिकनमस्कृतिः वामबाहूपधानः आकुश्चितजानुकः कुकवाकुवद वियति प्रसारितजङ्घो वा प्रमार्जितक्षोणीतलन्यस्तचरणो वा भूयः सङ्कोचसमये प्रमार्जितसंदंशकमुद्वर्तनकाले च मुखवस्त्रिकामृष्टकायो नात्यन्ततीव्रनिद्रः शयीत । __आसनं-निवेशनं यत्र भूप्रदेशे विवक्षितं तं प्रत्यवेक्ष्य चक्षुषों च रजोहरणेन प्रमृज्य च बहिनषद्यामास्तीय निविशेत। निविष्टोऽप्याकुञ्चनप्रसारणादि पूर्ववत् कुर्वीत । वर्षादिषु च सिकापीठकाधमुयैव सामाचार्य प्रत्यवेक्ष्यं प्रमृज्य च सन्निवेशनं कुर्यात् । आदाननिक्षेपी च दण्डकोपकरणचेष्टाभोजनादि विषयो, वा तावपि प्रत्यवेक्षणप्रमार्जनपूर्वकै निरवद्यै भवतः। तथा स्थानमूर्ध्वस्थितिलक्षणमवष्टम्भादिकसुप्रत्यवेक्षितप्रदेशविषयं पिण्डीकृतवस्त्राद्यन्तर्धानमवष्टम्भादि च निरवद्यं, चक्रमणं-गमनं तदपि प्रयोजनवतः पुरस्ताद् युगमात्रप्रदेश १ 'निग्रहः परिग्रहः' इति ग-पाठः। २'कायेना' इति च-पाठः। ३ प्रमाणायुष्काणां' इति :च-पाठः । ४ 'प्रमृज्यकायेन ' इति ङ-पाठः। ५ ' चक्षुषा प्रमृज्य च रजोहत्या बहिर्निष० ' इति च-पाठः । ६ यत्र भूप्रदेशे निविष्टो' इति ङ-पाठः। ७ 'वृमिका' इति च-पाठः । ८'प्रत्युपेक्ष्य प्रमृज्य' इति ग-चपाठः । ९.दिवास्तुप्रत्य ' इति डर-पाठः । १० चक्रमणं ' इति ग-च-पाठः । शयन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002716
Book TitleTattvarthadhigamsutram Part 2
Original Sutra AuthorUmaswati, Umaswami
AuthorHiralal R Kapadia
PublisherJivanchandra Sakarchandra
Publication Year1929
Total Pages472
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy