________________
सम्बन्धः
सूत्र ४] . स्वोपज्ञभाष्य-टीकालङ्कृतम्
१८३ ___ भा०-तपो द्वादशविधं वक्ष्यते ( अ० ९, सू० १९-२० )। तेन संवरो भवति निर्जरा च ॥३॥
टी०-तपो द्वादशविधमित्यादि भाष्यम् । द्वादश विधा:-प्रकारा यस्य तद् द्वादशविधं तपः, उपरिष्टात् इहैवाध्याये (स०१९-२०) अभिधास्यते-बाह्यमनशनादिषोढा, आभ्यन्तरं च प्रायश्चित्तादि पोढा । तेन द्वादशभेदेन तपसा करणतामापनेनोक्तलक्षणः संवरो भवति-आगन्तुककमाभावप्रतिपादनं, निजेरा च भवतीति चिरन्तनबद्धकमोभावप्रतिपत्तिः । एवमिदमुभयस्य संवरनिर्जरालक्षणस्य हेतुभूतं तपो भवतीति ॥३॥ आह-अस्मिन् भारते वर्षे साम्प्रतिकपुरुषाणामल्पवीर्यत्वात सकलयोगनिरोध
_ लक्षणसंवरात्यये गुप्त्यादिसामर्थ्यात् परिस्पन्दवतामपि संवरास्तित्व उत्तरसूत्र
: माश्रीयते यदि ततस्त एव स्वरूपतोऽभिधेया इति क्रमेण गुप्त्यादिस्व
" रूपनिर्णयः कार्यः । तत्र तावद् गुप्तिस्वरूपमेवोच्यते--" सम्यग्योगनिग्रहो गुप्तिः" (सू० ४)। भाष्यकारस्त्वन्यथा कियताऽपि विशेषेण सम्बन्धमाह
भा०–अत्राह-उक्तं भवता (अ० ९, सू० २)-गुप्त्यादिभिरभ्युपायैः संवरो भवतीति । तत्र के गुप्त्यादय इति ? । अत्रोच्यते
टी.-अत्राह-उक्तमित्यादि । गुप्त्यादिभिः संघरो भवतीत्यत्रावसरे कश्चित प्रश्नयति–उक्तं भवता गुप्त्यादिभिरभ्युपायैः संवरो भवति। तत्र-तेषु संवरकारणेषु के गुप्त्यादयः-किस्वरूपा गुप्त्यादय इति । अत्रोच्यते प्रतिपादयितुर्वचनम, अत्र प्रश्ने निर्वचनमभिधीयते ॥ गुप्तिलक्षणम् सूत्रम्-सम्यग्योगनिग्रहो गुप्तिः ॥ ९-४ ॥
टी.-सम्यक्-प्रशस्तो मुमुक्षोर्योगनिग्रहो गुप्तिः-आत्मसंरक्षणम् । योगा मनोवाक-कायलक्षणास्तेषां निग्रहो-निगृहीतिः प्रवचनविधिना मार्गव्यवस्थापनमुन्मार्गगमननिवारणं चेति, अतो योगनिग्रहविशेषणार्थं सम्यगिति, सम्यग्-आगमानुसारेणारक्तद्विष्टपरिणतिसहचरिष्णोर्मनोव्यापारः काय-वाग्व्यापारश्च निर्व्यापारता-वाक-काययोर्निग्रहो गुप्तिर्भवति, न पुनस्तस्करस्येव प्रत्यग्रागसो गाढबन्धनबद्धस्यातिपीडितहृदयप्रदेशस्य सम्पुटितनऋविवरस्य पराधीनात्मनोऽनिच्छतो( वृत्तो) योगनिग्रह इष्यते ।
सम्प्रति भाष्येण सूत्रार्थ स्पष्टयन्नाह
भा०-सम्यगिति विधानतो ज्ञात्वाऽभ्युपेत्य सम्यग्दर्शनपूर्वकं त्रिविधस्य योगस्य निग्रहो गुप्तिः ।
वक्ष्यामः' इति डा-पाठः। २ 'गन्तुकर्मा' इति ड-पाठः। ३ 'काययोग' इति ग-पाठः । ४ ' प्रत्ययाप्रशो' इति ग-पाठः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org