________________
१८२ तत्त्वार्थाधिगमसूत्रम्
[अध्यायः ९ निक्षेपणादिनिमित्तमात्मनि नाश्लिष्यति कायोत्सर्गभाजः परित्यक्तहिंसादिदोषविषयक्रिया कस्य वा समयविहितक्रियानुष्ठायिनः, कायगुप्तत्वात्, एवं सम्यग्योगत्रयनिगृहीतिलक्षणास्तिस्रो गुप्तयः संवरस्य कारणीभवन्ति । समितयोऽपि गुप्तिरूपा एव प्रायश्चेष्टालक्षणत्वात् । चेष्टा च कायवाश्मनोव्यापारः । तत्रेयोऽऽदाननिक्षेपोचारादित्यागसमितयस्तिस्रः कायव्यापारान्तर्भूताः । मनोव्यापारानुयायिनी चैषणासमितिः, वाग्व्यापारलक्षणा भाषासमितिः। यत् तु पार्थक्येनोपादानं तत् मन्दधियां विवेकेन सुखप्रतिपत्त्यर्थ, प्रथमत्रतमृषावादादिप्रपञ्चवत् । तथाक्रोध-मान-माया-लोभानां सभेदानां क्षमा-मार्दवाऽऽर्जव-शौचैर्निगृहीतत्वात् संवरावाप्तिः । सत्य-त्यागा-ऽऽकिञ्चन्य-ब्रह्मचर्याणि चारित्रानुरोधीनि । संयमोऽपि सप्तदशप्रकारः कश्चित् प्रथमव्रतान्तःपाती, कश्चिदुत्तरगुणान्तर्भूतः। तपो द्वादशविधमुत्तरगुणान्तःपात्येव । अनित्याशरणादिचिन्तनमपि संवृण्वतो हेतुभूतमुत्तरगुणानुयायि च । परीपहा अपि यथास्वमापतिताः सम्यगधिसहनेन जीयमानाः संवरमाविष्कुर्वन्ति । तथा हिंसा-ऽनृतवचन-परस्त्राहरणा-ब्रह्मचर्य-परिग्रहयामिनीभोजनानि संश्लेषविशेषाहितकलुषस्य कर्मास्रवनिमित्तानि । निरोधे सति विरमणभाजो न जातुचिदापतति तन्निमित्तकं कर्मेति । आधाकर्मादिपरिभोगनिमित्तं च कर्मास्रवणं तत्परित्यागे सति नैवास्ति । सर्वं चैतेदारेकादिदोषजम्बालविमुक्तसम्यग्दर्शनपीठप्रतिबन्ध गुप्त्यादि चारित्रान्तम् अतः सति तत्त्वार्थश्रद्धानलक्षणे सम्यक्त्वे न भवति मिथ्यादर्शनप्रत्ययः कर्मास्रव इत्येवमेते गुप्त्यादयः संवरस्य हेतवः-अभ्युपायाः सम्पद्यन्त इति ॥२॥
अथ किमेभिरेव गुप्त्यादिभिरेष संवरो निष्पद्यते उतापरेणापि केनचिदित्याहकिश्चान्यदिति । अनेन कारणान्तरमपि सम्बध्नाति । न गुप्त्यादय एव केवलाः संवरणसमर्थाः, किश्चान्यदपि तपोलक्षणं 'संवृतेः कारणमस्तीति प्रदर्शयन्नाह
संवरस्य अपर उपायः सूत्रम्-तपसा निर्जरा च ॥ ९-३॥
टी-तपसा निर्जरा चेति । पृथग् योगकरणमुभयहेतुत्वात् । तपसोऽभिनवकर्मप्रवेशाभावः पूर्वोपचितकर्मपरिक्षयश्च । तप्यत इति तपः, सेव्यत इतियावत् । तपति वा कर्तारमिति तपः । तपसेति करणे तृतीया। निर्जरणं निर्जरा-विपकानां कर्मावयवानां परिशटनं, हानिरित्यर्थः। तपसा सेव्यमानेन कर्माण्यात्मप्रदेशेभ्यो विघटन्त इतियावत् । कर्तुः सन्तापकत्वाद् वा शुष्करसं कर्मातिरूक्षत्वानिःस्नेहबन्धनं परिशटतीत्यर्थः । चशब्दः प्रस्तुतसंवरानुकी, तपसा संवरश्व क्रियते, अनशनप्रायश्चित्तध्यानादितपोयुक्तोऽवश्यन्तयैव संवतास्रवद्वारो भवतीति ॥
१. निक्षेपादि ' इति -पाठः । २ ' देकादि ' इति ङ-पाठः । ३ 'संवृतस्य' इति उ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org