________________
१७८
तत्त्वार्थाधिगमसूत्रम् .. [ अध्यायः ८. टी०-सवेद्यमिति । तत्र सद्वेद्यं सुखरूपेणानुभवनीयम् । तदुपादानहेतवः प्रागुक्ताः । कारणानुरूपं कार्य भवतीति स्मरयति-" भूतव्रत्यनुकम्पा दानं सरागसंयमादि योगः क्षान्तिः शौचमिति सद्वेद्यस्य" (अ० ६, सू० १३)। सम्यक्त्ववेदनीयं तत्वार्थश्रद्धानाकारेणानुभवनीयम्, तदपि केवलिश्रुतसङ्घधर्मदेवानां वर्णवादादिहेतुकम् । वर्ण:कीर्तिः, यशः सद्भूतगुणोद्भावनं भक्तिः पूजा पर्युपासनम् आदिग्रहणात, ते हेतवो यस्य तत् तद्धेतुकम् । हास्यवेदनीयं हास्याकारेणैवानुभवनीयम् । एवं रतिवेदनीयं च रत्याकारण, पुरुषवेदनीयं पुरुषाकारेणेति । शुभायुनर्नामगोत्राणीति । शुभशब्दः प्रत्येकमभिसम्बध्यते । तत्र शुभायुष्कं मानुषं दैवं च भाष्यकाराभिप्रायः । कर्मप्रकृतिग्रन्थानुसारिणस्तु तिर्यगायुरपि शुभमाचक्षते । यदि च तत् तथा चशब्देनानुकृष्यते । शुभनाम गतिनामादीनां मध्यादुद्धर्तव्यं सप्तत्रिंशत्प्रकारम् । शुभं गोत्रमाचष्टे । उच्चैर्गोत्रमित्यर्थः । एवमेतदुच्चैर्गोत्रान्तं सद्वेद्यादि कर्माष्टविधं पुण्यसंज्ञितं, अर्थाल्लभ्यं व्युदसनीयं पापमिति । कर्मप्रकृतिग्रन्थानुसारिणस्तु द्वाचत्वारिंशत्प्रकृतीः पुण्याः कथयन्ति-सद्वेद्य (१), तिर्यइ-मनुष्यदेवायूंषि (३), मनुष्य-देवगती (२) पञ्चेन्द्रियजातिः (१), शरीराणि पश्च (५), समचतुरस्रसंस्थान (१), वज्रर्षभनाराचसंहननं (१), अङ्गोपाङ्गत्रयं (३), प्रशस्तवर्ण-गन्ध-रस-स्पर्शाः (४), मनुष्यदेवानुपूच्यौं (२), अगुरुलघु-पराघात-उच्चास-आतप-उद्द्योत-प्रशस्तविहायोगति-त्रस-बादर-प
र्याप्तप्रत्येक-स्थिर-शुभ-सुभग सुस्वर-आदेय-यशःकीर्ति( १६ )पर्यवसानाः मतान्तरम्, तत्समा शुभाः निर्माण-तीर्थकर-उच्चैर्गोत्रैः (३) सहेति ॥आसां च मध्ये सम्यक्त्वधानस्याशक्यत्वम्
Ta हास्यरति पुरुषवेदा न सन्त्येवेति । कोऽभिप्रायो भाष्यकृतः को वा कर्मप्रकृतिग्रन्थप्रणायिनामिति सम्प्रदायविच्छेदान्मया तावन्न व्यज्ञायीति, चतुर्दशपूर्वधरादयस्तु संविद्रते यथावदिति निर्दोष व्याख्यातम् । द्वयधिकाशीतिरपुण्यकृतीनाम् । तद्यथापञ्च ज्ञानावरणानि नव दर्शनावरणानि असद्वेद्यं मिथ्यात्वं षोडश कषायाः नव नोकषायाः नारकायुः नरक-तिर्यग्गती एक-द्वि-त्रि-चतुरिन्द्रियजातयः, आद्यवर्जानि संस्थानानि पश्च
__ संहननानि पञ्चैव अप्रशस्तवर्ण-गन्ध-रस स्पशा नारकतियेग्गत्यानुपूयों उपधापाप तनाम अप्रशस्तविहायोगतिः स्थावर-सूक्ष्मा-ऽपर्याप्तक-साधारणा-ऽस्थिरा-ऽशुभ
दुर्भग-दुःस्वरा-ऽनादेया-यश-कीर्तय इति, तथा नीचैर्गोत्रं पञ्चविधमन्तरायमिति । सम्यक्त्वादिषूभयथा दर्शनात् संशेते मनः ।
सातं तिर्यग-नृ-सुरा-यूपि शरीराणि पञ्च मनुजगतिः । देवगतिः पञ्चेन्द्रियताऽङ्गोपाङ्गानि सर्वाणि ॥ १ ॥ बजर्षभनाराचं समचतुरस्रं च तीर्थकरनाम ।
स्पर्श रस गन्ध-वर्ण-विहायोगतयः प्रशस्ताश्च ॥ २॥ १'श्रुतसंयमदेवानुवर्ण' इति च-पाठः । २ ' यशोऽकीर्तयः' इति घ-पाठः ।
प्रकृतयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org