________________
सूत्र २६ ] स्वोफ्तभाष्य-टीकालङ्कृतम्
१७७ सर्वप्रकृतयो-ज्ञानावरणादिकास्तत्स्वरूपाः पुद्गलाः सर्वप्रकृतिपुद्गलाः । सर्वात्मप्रदेशेषु बध्यन्त इति । पुनरेकैकस्य कर्मणो ज्ञानावरणादेर्योग्याः पुद्गलाः कियन्तः एकैकस्मिन्नात्मप्रदेशे बध्यन्त इति स्पष्ट विवृणोति-एकैको हीत्यादि । असङ्ख्येयप्रदेशात्मनो जीवस्य एकैकः प्रदेशोऽनन्तैर्ज्ञानावरणकर्मस्कन्धैर्बद्धः । एवं. दर्शनावरणादिकर्मप्रदेशैरिति । प्रदेशशब्दः स्कन्धवचनः, प्रकृष्टा देशा बहवो यत्र स्कन्धेविति निर्वचनात् ।
अष्टमप्रश्ननिर्भदायाहभा०-अनन्तानन्तप्रदेशाः कर्मग्रहणयोग्याः पुद्गला बध्यन्ते ।
टी-अनन्तानन्तप्रदेशा इति । अनन्ते राशौ भूयोऽनन्तपुद्गलप्रक्षेपांदनन्तानन्त इति व्यपदेशः । ते चात्मन एकैकस्मिन् प्रदेशे ज्ञानावरणादिपुद्गला अनन्तानन्तप्रदेशाः स्कन्धाः कर्मवर्गणायोग्या बध्यन्ते, श्लेषमुपयान्तीत्यर्थः । अयोग्यास्तु न बध्यन्त इति ।
तत्प्रतिपादनायाह
भा०-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशाः । कुतः १ अग्रहणयोग्यत्वात् प्रदेशानामिति । एष प्रदेशबन्धो भवति ॥२५ ॥
टी-न तु सङ्ख्येयासङ्ख्येयानन्तप्रदेशा इति । नैव सङ्ख्येयादिप्रदेशा बध्यन्त इति । कुत एतदित्याह-अग्रहणयोग्यत्वात्प्रदेशानामिति। प्रदेशानां स्कन्धानामेवंविधानामग्रहणयोग्यत्वादिति। सम्प्रति उपसंहरति-एष प्रदेशबन्धो भवतीति । एतत् प्रदेशबन्धस्वरूपमित्यर्थः ॥२५॥ . भा०-सर्व चैतदष्टविधं कर्म पुण्यं पापं च । तत्र
टी.-सर्व चैतदित्यादिसम्बन्धग्रन्थः । सर्वमिति सोत्तरप्रकृतिकमष्टप्रकार ज्ञानावरणाद्यन्तरायपर्यवसानं पौद्गलं कर्म द्विधा (वि)भज्यते-पुण्यं पापं च । शुभं कर्म पुण्यं, अशुभं पापमिति । तत्र द्विप्रकारे कर्मणि प्राशस्त्याच्छुभमेवाभिधीयते । तन्निरूपणेन यच्छेषं तत् पापमित्याद् गम्यते, अत:- सूत्रम्-सद्धेद्य-सम्यक्त्व-हास्य-राति-पुरुषवेद-शुभायु-नाम-गोत्राणि पुण्यम् ॥ ८-२६ ॥
भा०-सदेचं भूतव्रत्यनुकम्पादिहेतुकं सम्यक्त्ववेदनीयं केवलिश्रुतादीनां वर्णवादादिहेतुकं हास्यवेदनीयं रतिवेदनीयं पुरुषवेदनीयं शुभमायुष्कं मानुषं दैवं च शुभनाम गतिनामादीनां शुभं गोत्रं उच्चैर्गोत्रमित्यर्थः । इत्येतदष्टविधं कमें पुण्यम्, अतोऽन्यत् पापमिति ॥२६॥
१ 'स्पष्टं पृथक् ' इति ङ-पाठः । २ ‘पादनन्त इति' च-पाठः । २३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org