________________
१७६
तत्त्वार्थाधिगमसूत्रम्
[ अध्यायः ८ कायादिचेष्टा योगानां विशेषो-भेदः तीव्रमन्दादिकः तस्माद् योगविशेषादतुल्यं बन्धनम् , एतदेवाह-कायवामनःकर्मयोगाच्च बध्यन्त इति । कायस्य वाचः मनसश्च क्रिया-कर्म अनुष्ठानभाषणचिन्तनादिका तयाऽऽत्मनो योगः-सम्बन्धः। क्रियाक्रियावतोः कथञ्चिदनन्यत्वात् , तस्य क्रियायोगस्य विशेषस्तीवस्तीव्रतरस्तीव्रतम इत्येवं बन्धोऽपि प्रकृष्टादिभेदो मन्तव्यः । किंगुणाः के वेत्यत्राह
भा०-सूक्ष्मा बध्यन्ते, न बादराः।
टी०-सूक्ष्मा बध्यन्ते, न बादरा इति । सूक्ष्मशब्दो ह्यापेक्षिकत्वाद् बहुभेदः, परमाणोरारभ्य यावदनन्तप्रदेशाः स्कन्धास्तावदप्यतिसूक्ष्मत्वान्न बन्ध्या भवन्ति । अनन्तानन्तप्रदेशवर्गणायामपि भूयोऽनन्तराशिंप्रदेशात् केचिद् ग्रहणयोग्याः केचिन्नेति अतः सूक्ष्मग्रहणम् । एवं क्रमेणौदारिक-वैक्रिया-ऽऽहारक-तैजस-भाषा-प्राणापान-मनोवर्गणाः समुल्लध्य कर्मवर्गणायोग्याः सूक्ष्मपरिणतिरूपा एव बध्यन्ते, न बादरपरिणतिभाज इति । एवं क्रमेण सूक्ष्मपरिणतिभाजः केचिदग्रहणयोग्याः केचिद ग्रहणयोग्याः, पुनरपि केचिदग्रहणयोग्या इति ॥
पञ्चमप्रश्नप्रतिवचनार्थमाहभा०-एकक्षेत्रावगाढा बध्यन्ते, न क्षेत्रान्तरावगाढाः ।
टी०-एकक्षेत्रावगाढा इत्यादि । एकस्मिन्-अभिन्न क्षेत्रे जीवप्रदेशैः सह येऽवगाढा-आश्रितास्ते बध्यन्ते । यत्राकाशे जीवोऽवगाढस्तत्रैव ये कर्मयोग्याः पुद्गलास्त एव बध्यन्ते, न क्षेत्रान्तरावगाढाः। तत्र च वर्तमानास्ते रागादिस्नेहगुणयोगादात्मनि लगन्ति, न क्षेत्रान्तरावगाढास्तद्भावपरिणामाभावादना(न्या)श्रितानामिति ।
षष्ठप्रश्नोत्तरमाहभा०—स्थिताश्च बध्यन्ते, न गतिसमापन्नाः ।
दी-स्थिता इत्यादिना । स्थिता एव बध्यन्ते । चशब्दस्यावधारणार्थत्वात् सामओलभ्यमर्थ दर्शयति-न गतिसमापन्ना इति । समाप्तिः प्राप्तिः गतिपरिणाम इत्यर्थः । गतिप्राप्तास्तु गच्छन्त्येव, परिणामविशेषान्नात्मनि श्लिष्यन्ते वेगित्वादिति ।
सप्तमप्रश्नप्रतिभेदायाह
भा०-सर्वात्मप्रदेशेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु अध्यन्ते। एकको यात्मप्रदेशोऽनन्तैः कर्मप्रदेशैर्बद्धः ।
टी०-सर्वात्मप्रदेशेष्वित्यादि । सर्वे च ते आत्मप्रदेशाश्च सर्वात्मप्रदेशाः । आत्मप्रदेशाश्चासङ्ख्येयास्तेषु सर्वप्रकृतिपुद्गलाः सर्वात्मप्रदेशेषु बध्यन्त इति । सर्वाश्च ताः प्रकृतयश्च
१ 'कर्मविशेषाच्च ' इति ङ-पाठः । २ भूयोमपि भूयो०' इति च-पाठः । ३ प्रक्षेपात् ' इति ङ-पाठः । । 'सह तत्र येऽवगाढाः' इति ड-पाठः। ५ 'प्रश्ननिर्भेदायाह ' इति ग-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org